________________
२७१
चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः । चउब्विहे दिट्ठिवाए इत्यादि, तत्र दृष्टयो दर्शनानि नया उद्यन्ते अभिधीयन्ते पतन्ति वा अवतरन्ति यस्मिन्नसौ दृष्टिवादो दृष्टिपातो वा द्वादशमङ्गम्, तत्र सूत्रादिग्रहणयोग्यतासंपादनसमर्थं परिकर्म गणितपरिकर्मवत्, तच्च सिद्धसेनिकादि, सूत्राणीति ऋजुसूत्रादीनि द्वाविंशतिर्भवन्ति, इह सर्वद्रव्य-पर्याय-नयाद्यर्थसूचनात् सूत्राणीति, समस्तश्रुतात् पूर्वं करणात् पूर्वाणि, तानि चोत्पादपूर्वादीनि चतुर्दशेति, एतेषां चैवं नाम-प्रमाणानि, तद्यथाउप्पाय १ अग्गेणीय २ वीरियं ३ अत्थिनत्थि उ पवायं ४ । णाणपवायं ५ सच्चं ६ आयपवायं च ७ कम्मं च ८ ॥ पुव्वं पच्चक्खाणं ९ विज्जणुवायं १० अवंझ ११ पाणाउं १२ । किरियाविसालपुव्वं १३ चोद्दसमं बिंदुसारं तु १४ ॥ उप्पाये पयकोडी १ अग्गेणीयम्मि छन्नउइलक्खा २ । विरियम्मि सयरिलक्खा ३ सट्ठिलक्खा उ अत्थिणस्थिम्मि ४ ॥ एगा पउणा कोडी णाणपवायम्मि होइ पुव्वम्मि ५ । एगा पयाण कोडी छच्च पया सच्चवायम्मि ६ ॥ छव्वीसं कोडीओ आयपवायम्मि होइ पयसंखा ७ । कम्मपवाए कोडी असीतीलक्खेहिं अब्भहिआ ८ ॥ चुलसीइ सयसहस्सा पच्चक्खाणम्मि वन्निया पुव्वे । एक्का पयाण कोडी दससहसहिया य अणुवाए १० ॥ छव्वीसं कोडीओ पयाण पुव्वे अवंझणामम्मि ११ । पाणाउम्मि य कोडी छप्पणलक्खेहिं अब्भहिया १२ ॥ नवकोडीओ संखा किरियविसालम्मि वन्निया गुरुणा १३ ।
अद्धत्तेरसलक्खा पयसंखा बिंदुसारम्मि ॥ [ ] त्ति । तेषु गतं प्रविष्टं यत् श्रुतं तत् पूर्वगतं पूर्वाण्येव, अङ्गप्रविष्टमङ्गानि यथेति । योजनं योगः अनुरूपोऽनुकूलो वा सूत्रस्य निजेनाभिधेयेन सह योग इत्यनुयोगः, स चैकस्तीर्थकराणां प्रथमसम्यक्त्वावाप्ति-पूर्वभवादिगोचरो यः स मूलप्रथमानुयोगोऽभिधीयते, यस्तु कुलकरादिवक्तव्यतागोचरः स गण्डिकानुयोग इति ।
[सू० २६३] चउविहे पायच्छित्ते पन्नत्ते, तंजहा-णाणपायच्छित्ते,