________________
२७०
रूयंसा, सुरूवा, रूयावती १। चत्तारि विजुकुमारिमहत्तरियाओ पन्नत्ताओ, तंजहा-चित्ता, चित्तकणगा, सतेरा, सोतामणी २॥
[सू० २६०] सक्कस्स णं देविंदस्स देवरन्नो मज्झिमपरिसाते देवाणं चत्तारि पलिओवमाइं ठिती पन्नत्ता ३। ईसाणस्स णं देविंदस्स देवरणो मज्झिमपरिसाते देवीणं चत्तारि पलिओवमाइं ठिती पन्नत्ता ४।
[टी०] देवाधिकारे एवेदं सूत्रचतुष्टयम्- चत्तारि दिसा इत्यादि सुगमम्, नवरं दिक्कुमार्यश्च ता महत्तरिकाश्च प्रधानतमास्तासां वा महत्तरिका दिक्कुमारीमहत्तरिकाः, एता मध्यरुचकवास्तव्या अर्हतो जातमात्रस्य नालकल्पनादि कुर्वन्तीति । विद्युत्कुमारीमहत्तरिकास्तु विदिगुरुचकवास्तव्याः, एताश्च भगवतो जातमात्रस्य चतसृष्वपि दिक्षु स्थिता दीपिकाहस्ता गायन्तीति ।
[सू० २६१] चउव्विहे संसारे पन्नत्ते, तंजहा-दव्वसंसारे, खेत्तसंसारे, कालसंसारे, भावसंसारे । ___ [टी०] एते च देवाः संसारिण इति संसारसूत्रम्, तत्र संसरणम् इतश्चेतश्च परिभ्रमणं संसारः । तत्र संसारशब्दार्थज्ञस्तत्रानुपयुक्तो द्रव्याणां वा जीव-पुद्गललक्षणानां यथायोगं भ्रमणं द्रव्यसंसारः । तेषामेव क्षेत्रे चतुर्दशरज्ज्वात्मके यत् संसरणं स क्षेत्रसंसारः, यत्र वा क्षेत्रे संसारो व्याख्यायते तदेव क्षेत्रमभेदोपचारात् संसारो यथा रसवती गुणनिकेत्यादि। कालस्य दिवस-पक्ष-मासर्वयन-संवत्सरादिलक्षणस्य संसरणं चक्रन्यायेन भ्रमणं पल्योपमादिकालविशेषविशेषितं वा यत् कस्यापि जीवस्य नरकादिषु स कालसंसारः, यस्मिन् वा काले पौरुष्यादिके संसारो व्याख्यायते स कालोऽपि संसार उच्यते अभेदाद्यथा प्रत्युपेक्षणाकरणात् कालोऽपि प्रत्युपेक्षणेति । तथा संसारशब्दार्थज्ञः तत्रोपयुक्तो जीव-पुद्गलयोर्वा संसरणमात्रमुपसर्जनीकृतसम्बन्धिद्रव्यं भावानां वौदयिकादीनां वर्णादीनां वा संसरणपरिणामो भावसंसार इति ।
[सू० २६२] चउव्विहे दिट्टिवाते पन्नत्ते, तंजहा-परिकम्मं, सुत्ताई, पुव्वगए, अणुजोगे । [टी०] अयं च द्रव्यादिसंसारोऽनेकनयैर्दृष्टिवादे विचार्यते इति दृष्टिवादसूत्रम्