________________
चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः ।
२६९ सुगमानि, नवरम् इन्द्रः परमैश्वर्ययोगात् प्रभुर्महान् वा गजेन्द्रवत्, राजा तु राजनाद् दीपनात्, शोभावत्त्वादित्यर्थः आराध्यत्वाद्वा, एकार्थों वैताविति, दाक्षिणात्येषु यो नामतस्तृतीयो लोकपालः स औदीच्येषु चतुर्थश्चतुर्थस्त्वितर इति, एवम् एक्वंतरिय त्ति, यन्नामानः शक्रस्य तन्नामान एव सनत्कुमार-ब्रह्मलोक-शुक्र-प्राणतेन्द्राणां तथा यन्नामान ईशानस्य तन्नामान एव माहेन्द्र-लान्तक-सहस्रारा-ऽच्युतेन्द्राणामिति । कालादयः पातालकलश-स्वामिन इति ।
[सू० २५८] चउव्विहे पमाणे पन्नत्ते, तंजहा-दव्वप्पमाणे, खेत्तप्पमाणे, कालप्पमाणे, भावप्पमाणे ।।
[टी०] चतुर्विधा देवा इत्युक्तम्, एतच्च सङ्ख्याप्रमाणमिति प्रमाणप्ररूपणसूत्रम्, तत्र प्रमितिः प्रमीयते वा परिच्छिद्यते येनार्थस्तत् प्रमाणम्, तत्र द्रव्यमेव प्रमाणं दण्डादिद्रव्येण वा धनुरादिना शरीरादेव्यैर्वा दण्ड-हस्ता-ऽगुलादिभिः द्रव्यस्य वा जीवादेः द्रव्याणां वा जीव-धर्मा-ऽधर्मादीनां द्रव्ये वा परमाण्वादौ पर्यायाणां द्रव्येषु वा तेष्वेव तेषामेव प्रमाणं द्रव्यप्रमाणम्, एवं यथायोगं सर्वत्र विग्रहः कार्यः, तत्र द्रव्यप्रमाणं द्विधा–प्रदेशनिष्पन्नं विभागनिष्पन्नं च, तत्र आद्यं परमाण्वाद्यनन्तप्रदेशिकान्तम्, विभागनिष्पन्नं पञ्चधा मानादि, तत्र मानं धान्यमानं सेतिकादि, रसमानं कर्षादि १, उन्मानं तुलाकर्षादि २, अवमानं हस्तादि ३, गणितमेकादि ४, प्रतिमानं गुञ्जा-वल्लादीति ५ । क्षेत्रम् आकाशम, तस्य प्रमाणं द्विधा-प्रदेशनिष्पन्नादि, तत्र प्रदेशनिष्पन्नमेकप्रदेशावगाढादि असङ्ख्येयप्रदेशावगाढान्तम्, विभागनिष्पन्नमङ्गुलादि । काल: समयः, तन्मानं द्विधा- प्रदेशनिष्पन्नमेकसमयस्थित्यादि असङ्ख्येयसमयस्थित्यन्तम्, विभागनिष्पन्नं समयावलिकेत्यादि, क्षेत्र-कालयोर्द्रव्यत्वे सत्यपि भेदनिर्देशो जीवादिद्रव्यविशेषकत्वेनाऽनयोस्तत्पर्यायताऽपीति द्रव्याद्विशिष्टताख्यापनार्थः । भाव एव भावानां वा प्रमाणं भावप्रमाणं गुण-नय-सङ्ख्याभेदभिन्नम्, तत्र गुणा जीवस्य ज्ञानदर्शन-चारित्राणि, तत्र ज्ञानं प्रत्यक्षा-ऽनुमानोपमाना-ऽऽगमरूपं प्रमाणमिति, नया नैगमादयः, सङ्ख्या एकादिकेति । [सू० २५९] चत्तारि दिसाकुमारिमहत्तरियाओ पन्नत्ताओ, तंजहा-रूया,