________________
२७२ दंसणपायच्छित्ते, चरित्तपायच्छित्ते, वियत्तकिच्चे पायच्छित्ते १ । ___ चउव्विहे पायच्छित्ते पन्नत्ते, तंजहा-पडिसेवणापायच्छित्ते, संजोयणापायच्छित्ते, आरोवणापायच्छित्ते, पलिउंचणापायच्छित्ते २ ।
[टी०] पूर्वगतमनन्तरमुक्तम्, तत्र च प्रायश्चित्तप्ररूपणाऽऽसीदिति प्रायश्चित्तसूत्रद्वयम्, तत्र ज्ञानमेव प्रायश्चित्तम्, यतस्तदेव पापं छिनत्ति प्रायः चित्तं वा शोधयतीति निरुक्तवशात् ज्ञानप्रायश्चित्तमिति, एवमन्यत्रापि । वियत्तकिच्चे त्ति व्यक्तस्य भावतो गीतार्थस्य कृत्यं करणीयं व्यक्तकृत्यं प्रायश्चित्तमिति, गीतार्थो हि गुरु-लाघवपर्यालोचनेन यत् किञ्चन करोति तत् सर्वं पापविशोधकमेव भवतीति, अथवा ज्ञानाद्यतिचारविशुद्धये यानि प्रायश्चित्तान्यालोचनादीनि विशेषतोऽभिहितानि तानि तथाऽपदिश्यन्ते, वियत्त त्ति विशेषेण अवस्थाद्यौचित्येन विशेषानभिहितमपि दत्तं वितीर्णमभ्यनुज्ञातमित्यर्थः, यत् किञ्चिन्मध्यस्थगीतार्थेन कृत्यम् अनुष्ठानं तद् विदत्तकृत्यं प्रायश्चित्तमेव, चियत्तकिच्चे त्ति पाठान्तरतस्तु प्रीतिकृत्यं वैयावृत्यादीति । प्रतिषेवणम् आसेवनमकृत्यस्येति प्रतिषेवणा, सा च द्विधा परिणामभेदात् प्रतिषेवणीयभेदाद्वा, तत्र परिणामभेदात्पडिसेवणा उ भावो सो पुण कुसलो व्व होज्जऽकुसलो वा।। कुसलेण होइ कप्पो अकुसलपरिणामओ दप्पो ॥ [व्यवहारभा० ३९]
इत्यादि प्रतिषेवणा तस्यां प्रायश्चित्तमालोचनादि, [प्रतिषेवणाप्रायश्चित्तम् १], तथा संयोजनम् एकजातीयातिचारमीलनं संयोजना यथा शय्यातरपिण्डो गृहीतः सोऽप्युदकाहस्तादिना सोऽप्यभ्याहृतः सोऽप्याधाकर्मिकस्तत्र यत् प्रायश्चित्तं तत् संयोजनाप्रायश्चित्तम्, तथा आरोपणमेकापराधप्रायश्चित्ते पुनः पुनरासेवनेन विजातीयप्रायश्चित्ताध्यारोपणमारोपणा, यथा पञ्चरात्रिन्दिवप्रायश्चित्तमापन्नः पुनस्तत्सेवने दशरात्रिन्दिवं इत्यादि आरोपणया प्रायश्चित्तमारोपणाप्रायश्चित्तमिति । तथा परिकुञ्चनम् अपराधस्य द्रव्य-क्षेत्र-काल-भावानां गोपायनमन्यथा सतामन्यथा भणने परिकुञ्चना परिवञ्चना वा, तस्याः प्रायश्चित्तं परिकुञ्चनाप्रायश्चित्तम्, [विशेषोऽत्र व्यवहारपीठादवसेय इति।]
[सू० २६४] चउब्विहे काले पन्नत्ते, तंजहा-पमाणकाले, अधाउणिव्वत्तिकाले, मरणकाले, अद्धाकाले ।