________________
२६६
शरीर-वाङ्-मनसां यथावस्थितार्थप्रत्यायनार्थाः प्रवृत्तयः, तथा अनाभोगादिना गवादिकमश्वादिकं यद्वदति कस्मैचित् किञ्चिदभ्युपगम्य वा यन्न करोति सा विसंवादना, तद्विपक्षेण योगः सम्बन्धोऽविसंवादनायोग इति । मोसे त्ति मृषाऽसत्यम् । कायस्यानृजुकतेत्यादि वाक्यम् ।
प्रणिधिः प्रणिधानं प्रयोगः, तत्र मनसः प्रणिधानम् आर्त्त-रौद्र-धर्मादिरूपतया प्रयोगो मनःप्रणिधानम्, एवं वाक्काययोरपि, उपकरणस्य लौकिक-लोकोत्तररूपस्य वस्त्र-पात्रादेः संयमासंयमोपकाराय प्रणिधानं प्रयोग उपकरणप्रणिधानम् ।
एवमिति यथा सामान्यतस्तथा नैयिकाणामिति, तथा चतुर्विंशतिदण्डकपठितानां मध्ये ये पञ्चेन्द्रियास्तेषामपि वैमानिकान्तानामेवमेवेति, एकेन्द्रियादीनां मनःप्रभृतीनामसम्भवेन प्रणिधानासम्भवादिति । प्रणिधानविशेषः सुप्रणिधानं दुष्प्रणिधानं चेति तत्सूत्राणि, शोभनं संयमार्थत्वात् प्रणिधानं मनःप्रभृतीनां प्रयोजनं सुप्रणिधानमिति। इदं च सुप्रणिधानं चतुर्विंशतिदण्डकनिरूपणायां मनुष्याणां तत्रापि संयतानामेव भवति, चारित्रपरिणतिरूपत्वात् सुप्रणिधानस्येत्याह– एवं संजयेत्यादि । दुष्प्रणिधानसूत्रं सामान्यसूत्रवत्, नवरं दुष्प्रणिधानम् असंयमार्थं मनःप्रभृतीनां प्रयोग इति ।
[सू० २५६] चत्तारि पुरिसजाता पन्नत्ता, तंजहा-आवातभद्दते णामेगे णो संवासभद्दते १, संवासभद्दते णामेगे णो आवातभद्दए २, एगे आवातभद्दते वि संवासभद्दते वि ३, एगे णो आवातभद्दते नो संवासभद्दए ४ [१] ।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अप्पणो णामेगे वजं पासति, णो परस्स १, परस्स णामेगे वजं पासति ४ [२] ।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अप्पणो णामेगे वजं उदीरेति, णो परस्स ४ [३] ।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अप्पणो नामेगे वजं उवसामेति, णो परस्स ४ [४] ।
चत्तारि पुरिसजाया पन्नत्ता, तंजहा-अब्भुढेइ णामेगे णो अब्भुट्ठावेति [५] । एवं वंदति णामेगे णो वंदावेति [६] । एवं सक्कारेति [७], सम्माणेति