________________
चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः ।
२६५ ४ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-आमे णामेगे आममहुरफलसमाणे ४ ।
[टी०] अनन्तरं जीवास्तिकाय उक्तः, तद्विशेषभूतपुरुषनिरूपणाय फलसूत्रम्, आमम् अपक्वं सत् आममिव मधुरम् आममधुरमीषन्मधुरमित्यर्थः, तथा आमं सत् पक्वमिव मधुरमत्यन्तमधुरमित्यर्थः, तथा पक्वं सत् आममधुरं प्राग्वत्, तथा पक्वं सत् पक्वमधुरं प्राग्वदेवेति, पुरुषस्तु आमो वयः-श्रुताभ्यामव्यक्तः आममधुरफलसमानः, उपशमादिलक्षणस्य माधुर्यस्याल्पस्यैव भावात्, तथा आम एव पक्वमधुरफलसमानः पक्वफलवन्मधुरस्वभावः, प्रधानोपशमादिगुणयुक्तत्वादिति, तथा पक्वोऽन्यो वयः-श्रुताभ्यां परिणतः आममधुरफलसमानः, उपशमादिमाधुर्यस्याल्पत्वात्, तथा पक्वस्तथैव, पक्वमधुरफलसमानोऽपि तथैवेति ।
[सू० २५४] चउव्विहे सच्चे पन्नत्ते, तंजहा-काउन्जुयया, भासुजुयया, भावुजुयता, अविसंवायणाजोगे ।
चउव्विहे मोसे पन्नत्ते, तंजहा-कायअणुजुयता, भासअणुजुयता, भावअणुज्जुयता, विसंवादणाजोगे ।
[सू० २५५] चउव्विहे पणिहाणे पन्नत्ते, तंजहा-मणपणिधाणे, वइपणिधाणे, कायपणिधाणे, उवकरणपणिधाणे । एवं रइयाणं, पंचेंदियाणं जाव वेमाणियाणं ।
चउव्विहे सुप्पणिहाणे पन्नत्ते, तंजहा-मणसुप्पणिहाणे जाव उवगरणसुप्पणिहाणे । एवं संजयमणुस्साण वि । __ चउव्विहे दुप्पणिहाणे पन्नत्ते, तंजहा-मणदुप्पणिहाणे जाव उवकरणदुप्पणिहाणे । एवं पंचेंदियाणं जाव वेमाणियाणं ।।
[टी०] अनन्तरं पक्कमधुर उक्तः, स च सत्यगुणयोगात् भवतीति सत्यं तद्विपर्ययं च मृषा तथा सत्यासत्यनिमित्तं प्रणिधानं प्रतिपिपादयिषुः सूत्राण्याह- चउव्विहे सच्चे इत्यादीनि गतार्थानि, नवरमृजुकस्य अमायिनो भावः कर्म वा ऋजुकता, कायस्य ऋजुकता कायर्जुकता, एवमितरे अपि, नवरं भावो मन इति, कायर्जुकतादयश्च