SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः । २५९ शैलेशस्येव मेरोरिव या स्थिरता सा शैलेशीति, हस्सक्खराई मज्झेण जेण कालेण पंच भन्नंति । अच्छइ सेलेसिगओ तत्तियमेत्तं तओ कालं ॥ तणुरोहारंभाओ झायइ सुहुमकिरियाणियटिं सो । वोच्छिन्नकिरियमप्पडिवाइं सेलेसिकालम्मि ॥ [विशेषाव० ३०६८-३०६९] इति । अथ शुक्लध्यानलक्षणान्युच्यन्ते- अव्वहे त्ति देवादिकृतोपसर्गादिजनितं भयं चलनं वा व्यथा, तस्या अभावो अव्यथम्, तथा देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च संमोहस्य मूढताया निषेधादसम्मोहः, तथा देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनं बुद्ध्या पृथक्करणं विवेकः, तथा निःसङ्गतया देहोपधित्यागो व्युत्सर्ग इति। अत्र विवरणगाथेचालिज्जइ बीहेइ व धीरो न परीसहोवसग्गेहिं १ । सुहुमेसु न संमुज्झइ भावेसु न देवमायासु २ ॥ देहविवित्तं पेच्छइ अप्पाणं तह य सव्वसंजोगे ३ । देहोवहिवुस्सगं निस्संगो सव्वहा कुणइ ४ ॥ [ध्यानश० ९१-९२] त्ति । आलम्बनसूत्रं व्यक्तम्, तत्र गाथाअह खंतिमद्दवज्जवमुत्तीओ जिणमयप्पहाणाओ । आलंबणाई जेहि उ सुक्कज्झाणं समारुहइ ॥ [ध्यानश० ६९] त्ति । अथ तदनुप्रेक्षा उच्यन्ते– अणंतवत्तियाणुप्पेह त्ति अनन्ता अत्यन्तं प्रभूता वृत्तिः वर्तनं यस्यासावनन्तवृत्तिः, अनन्ततया वा वर्तत इत्यनन्तवर्ती, तद्भावस्तत्ता, भवसन्तानस्येति गम्यते, तस्या अनुप्रेक्षा अनन्तवृत्तितानुप्रेक्षा अनन्तवर्त्तितानुप्रेक्षा वेति, यथा एस अणाई जीवो संसारो सागरो व्व दुत्तारो । नारय-तिरिय-नरा-ऽमरभवेसु परिहिंडए जीवो ॥ [ ] इति । एवमुत्तरत्रापि समासः, नवरं विपरिणामे त्ति विविधेन प्रकारेण परिणमनं विपरिणामो वस्तूनामिति गम्यते, यथा सव्वट्ठाणाई असासयाई इह चेव देवलोगे य । सुरअसुरनराईणं रिद्धिविसेसा सुहाई च ॥ [मरण० प्रकी० ५७५]
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy