________________
२५८
जं पुण सुनिप्पकंपं निवायसरणप्पईवमिव चित्तं । उप्पायठिइभंगाइयाणमेगम्मि पज्जाए ॥ अवियारमत्थवंजणजोगंतरओ तयं बिइयसुक्कं । पुव्वगयसुयालंबणमेगत्तवियक्कमवियारं ॥ [ध्यानश० ७९-८०] इति द्वितीयः ।
तथा सुहुमकिरिए त्ति निर्वाणगमनकाले केवलिनो निरुद्धमनोवाग्योगस्यार्द्धनिरुद्धकाययोगस्यैतद्, अतः सूक्ष्मा क्रिया कायिकी उच्छ्वासादिका यस्मिंस्तत्तथा, न निवर्त्तते न व्यावर्त्तत इत्येवंशीलमनिवर्ति प्रवर्द्धमानतरपरिणामादिति तृतीयः । ___ तथा, समुच्छिन्नकिरिए त्ति समुच्छिन्ना क्षीणा क्रिया कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत्तथा, अप्पडिवाए त्ति अनुपरतिस्वभावमिति चतुर्थः, आह हि
तस्सेव य सेलेसीगयस्स सेलो व्व निप्पकंपस्स । वोच्छिन्नकिरियमप्पडिवाई झाणं परमसुक्कं ॥ [ध्यानश० ८२] ति । इह चान्त्ये शुक्लभेदद्वये अयं क्रमः- केवली किलान्तर्मुहुर्तभाविनि परमपदे, भवोपग्राहिकर्मसु च वेदनीयादिषु समुद्घाततो निसर्गेण वा समस्थितिषु सत्सु योगनिरोधं करोति, तत्र च
पज्जत्तमेत्तसन्निस्स जत्तियाइं जहन्नजोगिस्स । होति मणोदव्वाइं तव्वावारो य जम्मेत्तो ॥ तदसंखगुणविहीणे समए समए निरंभमाणो सो । मणसो सव्वनिरोहं कुणइ असंखेज्जसमएहिं ॥ पज्जत्तमेत्तबेंदियजहन्नवइजोगपज्जया जे उ । तदसंखगुणविहीणे समए समए निरंभंतो ॥ सव्ववइजोगरोहं संखातीएहिं कुणइ समएहिं । तत्तो अ सुहुमपणगस्स पढमसमओववन्नस्स ॥ जो किर जहन्नजोगो तदसंखेज्जगुणहीणमेक्कक्के । समए निरंभमाणो देहतिभागं च मुंचंतो ॥ रुंभइ स काययोगं संखातीतेहिं चेव समएहिं । तो कयजोगनिरोहो सेलेसीभावणामेइ ॥ [विशेषाव० ३०५९-३०६४]