________________
२५७
चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः । इत्येवमात्मन एकस्य एकाकिनोऽसहायस्याऽनुप्रेक्षा भावना एकानुप्रेक्षा । तथाकाय: सन्निहितापाय: सम्पदः पदमापदाम् । समागमा: सापगमा: सर्वमुत्पादि भङ्गुरम् ॥ [ ] इत्येवं जीवितादेरनित्यस्यानुप्रेक्षा अनित्यानुप्रेक्षेति, तथा जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥ [प्रशम० १५२] एवमशरणस्य अत्राणस्यात्मनोऽनुप्रेक्षा अशरणानुप्रेक्षेति, तथामाता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव ॥ [प्रशम० १५६]
इत्येवं संसारस्य चतसृषु गतिषु सर्वावस्थासु संसरणलक्षणस्यानुप्रेक्षा संसारानुप्रेक्षेति ।
अथ शुक्लमाह- पुहत्तवियक्के त्ति पृथक्त्वेन एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन, पृथुत्वेन वा विस्तीर्णभावेनेत्यन्ये, वितर्को विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यस्मिंस्तत्तथा, पूज्यैस्तु वितर्कः श्रुतालम्बनतया श्रुतमित्युपचारादधीत इति, तथा विचरणम् अर्थाद् व्यञ्जने व्यञ्जनादर्थे तथा मनःप्रभृतीनां योगानामन्यतरस्मादन्यतरस्मिन्निति विचारो विचारोऽर्थव्यञ्जनयोगसङ्क्रान्ति: [तत्त्वार्थ० ९।४६] इति वचनात्, सह विचारेण सविचारि, सर्वधनादित्वादिन्समासान्तः, उक्तं च
उप्पायठितिभंगाई पज्जयाणं जमेगदव्वम्मि । नाणानयाणुसरणं पुव्वगयसुयाणुसारेणं ॥ सवियारमत्थवंजणजोगंतरओ तयं पढमसुक्कं । होति पुहुत्तवियक्कं सवियारमरागभावस्स ॥ [ध्यानश० ७७-७८] इत्येको भेदः । तथा एगत्तवियक्के त्ति एकत्वेन अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थो वितळः पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्कम्, तथा न विद्यते विचारोऽर्थ-व्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र सञ्चरणलक्षणो निवातगृहगतप्रदीपस्येव यस्य तदविचारीति पूर्ववदिति, उक्तं च