________________
२५६
विग्रह इति । आणाविजए त्ति आ अभिविधिना ज्ञायन्तेऽर्था यया साऽऽज्ञा प्रवचनम्, सा विचीयते निर्णीयते पर्यालोच्यते वा यस्मिंस्तदाज्ञाविचयं धर्मध्यानमिति, प्राकृतत्वेन विजयमिति, आज्ञा वा विजीयते अधिगमद्वारेण परिचिता क्रियते यस्मिन्नित्याज्ञाविजयम्, एवं शेषाण्यपि, नवरम् अपाया रागादिजनिताः प्राणिनामैहिकामुष्मिका अनर्थाः, विपाकः फलं कर्मणां ज्ञानाद्यावारकत्वादि, संस्थानानि लोक-द्वीपसमुद्र-जीवादीनामिति, आह च
आप्तवचनं प्रवचनमाज्ञा विचयस्तदर्थनिर्णयनम् । आश्रव-विकथा-गौरव-परीषहाद्यैरपायस्तु ॥ अशुभ-शुभकर्मपाकानुचिन्तनार्थो विपाकविचय: स्यात् । द्रव्य-क्षेत्राकृत्यनुगमनं संस्थानविचयस्तु ॥ [प्रशम० २४८-२४९] इति ।
एतल्लक्षणान्याह- आणारुइ त्ति आज्ञा सूत्रव्याख्यानं निर्युक्त्यादि तत्र तया वा रुचिः श्रद्धानम् आज्ञारुचिः, एवमन्यत्रापि, नवरं निसर्गः स्वभावोऽनुपदेशस्तेन, तथा सूत्रम् आगमः तत्र तस्माद्वा, तथा अवगाहनमवगाढम् द्वादशाङ्गावगाहो विस्तराधिगम इति सम्भाव्यते, तेन रुचिः, अथवा ओगाढ त्ति साधुप्रत्यासन्नीभूतस्तस्य साधूपदेशाद् रुचिः , उक्तं च
आगमउवएसेणं निसग्गओ जं जिणप्पणीयाणं । भावाणं सद्दहणं धम्मज्झाइस्स तं लिंग ॥ [ध्यानश० ६७] ति ।
तत्त्वार्थश्रद्धानरूपं सम्यक्त्वं धर्मस्य लिङ्गमिति हृदयम् । धर्मस्यालम्बनान्युच्यन्ते, धर्मध्यानसौधारोहणार्थमालम्ब्यन्त इत्यालम्बनानि, वाचनं वाचना विनेयाय निर्जरायै सूत्रदानादि, तथा शङ्किते सूत्रादौ शङ्कापनोदाय गुरोः प्रच्छनं प्रतिप्रच्छना, प्रतिशब्दस्य धात्वर्थमात्रार्थत्वादिति, तथा पूर्वाधीतस्यैव सूत्रादेरविस्मरण-निर्जरार्थमभ्यासः परिवर्त्तनेति, अनुप्रेक्षणमनुप्रेक्षा सूत्रार्थानुस्मरणमिति ।
अथानुप्रेक्षा उच्यन्ते– अन्विति ध्यानस्य पश्चात् प्रेक्षणानि पर्यालोचनान्यनुप्रेक्षाः, तत्र
एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं नासौ भावीति यो मम ॥ [ ]