________________
चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः ।
२५५
तथा मृषा असत्यम्, तदनुबध्नाति पिशुना-ऽसभ्याऽसद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धि, आह चपिसुणा-ऽसब्भा-ऽसब्भूय-भूयघायाइवयणपणिहाणं । मायाविणोऽतिसंधणपरस्स पच्छन्नपावस्स ॥ [ध्यानश० २०] त्ति ।
तथा स्तेनस्य चौरस्य कर्म स्तेयं तीव्रक्रोधाद्याकुलतया तदनुबन्धवत् स्तेयानुबन्धि, आह च
तह तिव्वकोह-लोहाउलस्स भूतोवघायणमणज्जं । परदव्वहरणचित्तं परलोगावायनिरवेक्खं ॥ [ध्यानश० २१] ति ।
संरक्षणे सर्वोपायैः परित्राणे विषयसाधनधनस्यानुबन्धो यत्र तत् संरक्षणानुबन्धि, यदाह
सद्दाइविसयसाहणधणसंरक्खणपरायणमणिहूँ । सव्वाहिसंकण-परोवघायकलुसाउलं चित्तं ॥ [ध्यानश० २२] ति ।
अथैतल्लक्षणान्युच्यन्ते– ओसन्नदोसे त्ति हिंसादीनामन्यतरस्मिन् ओसन्नं प्रवृत्तेः प्राचुर्यं बाहुल्यं यत् स एव दोषः, अथवा ओसन्नं ति बाहुल्येनानुपरतत्वेन दोषो हिंसादीनां चतुर्णामन्यतर ओसन्नदोषः, तथा बहुष्वपि सर्वेष्वपि हिंसादिषु दोषः प्रवृत्तिलक्षणो बहुदोषः, बहुर्वा बहुविधो हिंसानृतादिरिति बहुदोषः, तथा अज्ञानात् कुशास्त्रसंस्कारात् हिंसादिष्वधर्मस्वरूपेषु नरकादिकारणेषु धर्मबुद्ध्याऽभ्युदयार्थं या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः, अथवा उक्तलक्षणमज्ञानमेव दोषोऽज्ञानदोष इति, अन्यत्र नानाविधदोष इति पाठस्तत्र नानाविधेषु त्वक्तक्षणादिषु हिंसाधुपायेषु दोषोऽसकृत्प्रवृत्तिरिति नानाविधदोष इति, तथा मरणमेवान्तो मरणान्तः, आ मरणान्तादामरणान्तम् असञ्जातानुतापस्य कालसौकरिकादेरिव या हिंसादिषु प्रवृत्तिः सैव दोष आमरणान्तदोषः । ___ अथ धर्म्यं चतुर्विधमिति स्वरूपेण, चतुर्षु पदेषु स्वरूप-लक्षणा-ऽऽलम्बनाऽनुप्रेक्षालक्षणेष्ववतारो विचारणीयत्वेन यस्य तच्चतुष्पदावतारम्, चतुर्विधस्यैव पर्यायो वाऽयमिति, क्वचित् चउप्पडोयारमिति पाठस्तत्र चतुर्षु पदेषु प्रत्यवतारो यस्येति