________________
२५४
चतुर्थम् । द्वितीयं वल्लभधनादिविषयं चतुर्थं तत्सम्पाद्यशब्दादिभोगविषयमिति भेदोऽनयोर्भावनीयः, शास्त्रान्तरे तु द्वितीय-चतुर्थयोरेकत्वेन तृतीयत्वम्, चतुर्थं तु तत्र निदानमुक्तम्, उक्तं चअमणुन्नाणं सद्दाइविसयवत्थूण दोसमइलस्स। वस्तूनि शब्दादिसाधनानि, दोसो त्ति द्वेषः। धणियं वियोगचिंतणमसंपयोगाणुसरणं च ॥ तह सूल-सीसरोगाइवेयणाए वियोगपणिहाणं । तयसंपयोगचिंता तप्पडियाराउलमणस्स ॥ इट्ठाणं विसयाईण वेयणाए य रागरत्तस्स । अवियोगज्झवसाणं तह संजोगाभिलासो य ॥ देविंद-चक्कवट्टित्तणाइगुणरिद्धिपत्थणामइयं । अहमं नियाणचिंतणमन्नाणाणुगयमच्वंतं ॥ [ध्यानश० ६-९] ति । ___ आर्तध्यानलक्षणान्याह- लक्ष्यते निर्णीयते परोक्षमपि चित्तवृत्तिरूपत्वादार्तध्यानमेभिरिति लक्षणानि, तत्र क्रन्दनता महता शब्देन विरवणम्, शोचनता दीनता, तेपनता तिपेः क्षरणार्थत्वादश्रुविमोचनम्, परिदेवनता पुनः पुनः क्लिष्टभाषणमिति, एतानि चेष्टवियोगा-ऽनिष्टसंयोग-रोगवेदनाजनितशोकरूपस्यैवार्त्तस्य लक्षणानि, यत आहतस्सकंदण-सोयण-परिदेवण-ताडणाइं लिंगाइं । इट्ठाणिट्ठवियोगा-ऽवियोग-वियणानिमित्ताइं ॥ [ध्यानश० १५] ति । निदानस्यान्येषां च लक्षणान्तरमस्ति, आह चनिंदइ निययकयाइं पसंसइ सविम्हओ विभूतीओ। पत्थेइ तासु रज्जइ तयज्जणपरायणो होइ ॥ [ध्यानश० १६] त्ति ।
अथ रौद्रध्यानभेदा उच्यन्ते, हिंसाणु० त्ति हिंसां सत्त्वानां वध-बन्धनादिभिः प्रकारैः पीडामनुबध्नाति सततप्रवृत्तां करोतीत्येवंशीलं यत् प्रणिधानं हिंसानुबन्धो वा यत्रास्ति तद्धिंसानुबन्धि रौद्रध्यानम् इति प्रक्रम इति, उक्तं च
सत्तवहवेहबंधणडहणंकणमारणाइपणिहाणं । अइकोहग्गहघत्थं णिग्घिणमणसोऽहमविवागं ॥ [ध्यानश० १९] ति ।