________________
२५३
चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः । विप्परिणामाणुप्पेहा, असुभाणुप्पेहा, अवायाणुप्पेहा ।
[टी०] नारकत्वं ध्यानविशेषाद्,ध्यानविशेषार्थमेव च संघाट्यादिपरिग्रह इति ध्यानं प्रकरणत आह, चत्तारि त्ति सुगमं चैतत्, नवरं ध्यातयो ध्यानानि, अन्तर्मुहूर्त्तमात्रं कालं चित्तस्थिरतालक्षणानि, उक्तं च
अंतोमुत्तमित्तं चित्तावत्थाणमेगवत्थुम्मि । छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ॥ [ध्यानश० ३] त्ति ।
तत्र ऋतं दुःखं तस्य निमित्तं तत्र वा भवं ऋते वा पीडिते भवमार्तं ध्यानं दृढोऽध्यवसायः, हिंसाद्यतिक्रौर्यानुगतं रौद्रम्, श्रुत-चरणधर्मादनपेतं धर्म्यम्, शोधयत्यष्टप्रकारं कर्ममलं शुचं वा क्लमयतीति शुक्लम् । चउव्विहे त्ति चतस्रो विधा भेदा यस्य तत्तथा, अमनोज्ञस्य अनिष्टस्य, असमणुन्नस्स त्ति पाठान्तरे अस्वमनोज्ञस्य अनात्मप्रियस्य शब्दादिविषयस्य तत्साधनवस्तुनो वा सम्प्रयोगः सम्बन्धस्तेन सम्प्रयुक्तः सम्बद्ध: अमनोज्ञसम्प्रयोगसम्प्रयुक्तः अस्वमनोज्ञसम्प्रयोगसम्प्रयुक्तो वा, य इति गम्यते, तस्येति अमनोज्ञशब्दादेर्विप्रयोगाय विप्रयोगार्थं स्मृतिः चिन्ता तां समन्वागतः समनुप्राप्तो भवति यः प्राणी सोऽभेदोपचारादार्त्तमिति, चापीति शब्द उत्तरविकल्पापेक्षया समुच्चयार्थः, अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्तो यः प्राणी तस्य प्राणिनः विप्रयोगे प्रक्रमादमनोज्ञशब्दादिवस्तूनां वियोजने स्मृति: चिन्तनम्, तस्याः समन्वागतं समागमनं समन्वाहारो विप्रयोगस्मृतिसमन्वागतम्, चापीति तथैव, भवति आर्तध्यानमिति प्रक्रमः, इति प्रथमम्, एवमुत्तरत्रापि, नवरं मनोज्ञं वल्लभं धनधान्यादि, अविप्रयोगः अवियोग इति द्वितीयमार्त्तमिति । तथा आतङ्को रोग इति तृतीयम् । ___ तथा परिजुसिय त्ति निषेविता: ये कामाः कमनीयाः भोगाः शब्दादयः, अथवा कामौ शब्द-रूपे भोगा: गन्ध-रस-स्पर्शाः कामभोगाः, कामानां वा शब्दादीनां यो भोगस्तैस्तेन वा सम्प्रयुक्तः, पाठान्तरे तु तेषां तस्य वा सम्प्रयोगस्तेन सम्प्रयुक्तो यः स तथा, अथवा परिझुसिय त्ति परिक्षीणो जरादिना स चासौ कामभोगसम्प्रयुक्तश्च यस्तस्य तेषामेवाऽविप्रयोगस्मृतेः समन्वागतं समन्वाहारः, तदपि भवत्याः ध्यानमिति