SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २४८ सत्यः संयमित्वेन सद्भ्यो हितत्वाद्, अथवा पूर्वं सत्य आसीदिदानीमपि सत्य एवेति चतुर्भङ्गी । एवंप्रकारसूत्राण्यतिदिशन्नाह – एवमित्यादि व्यक्तम्, नवरमेवं सूत्राणि'चत्तारि पुरिसजाया पं० तं०-सच्चे नामं एगे सच्चपरिणए ४, एवं सच्चरूवे ४, सच्चमणे ४, सच्चसंकप्पे ४, सच्चपन्ने ४, सच्चदिट्ठी ४, सच्चसीलायारे ४, सच्चववहारे ४, सच्चपरक्कमे' त्ति ४ । पुरुषाधिकार एवेदमपरमाह– चत्तारि वत्थेत्यादि, शुचि पवित्रं स्वभावेन, पुनः शुचि संस्कारेण कालभेदेन वेति, पुरुषचतुर्भङ्ग्यां शुचिः पुरुषोऽपूतिशरीरतया पुनः शुचिः स्वभावेनेति । ‘सुइपरिणए सुइरूवे' इत्येतत् सूत्रद्वयं दृष्टान्त-दार्टान्तिकोपेतम्, सुइमणे इत्यादि च पुरुषमात्राश्रितमेव सूत्रसप्तकमतिदिशन्नाह– एवमित्यादि कण्ठ्यम्। [सू० २४२] चत्तारि कोरवा पन्नत्ता, तंजहा- अंबपलं बकोरवे तालपलंबकोरवे वल्लिपलंबकोरवे मेंढविसाणकोरवे । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा- अंबपलंबकोरवसमाणे तालपलंबकोरवसमाणे वल्लिपलबकोरवसमाणे मेंढविसाणकोरवसमाणे । [टी०] पुरुषाधिकार एवेदमपरमाह- चत्तारि कोरवेत्यादि, तत्र आम्रः चूतः, तस्य प्रलम्बः फलम्, तस्य कोरकं तन्निष्पादकं मुकुलम् आम्रप्रलम्बकोरकम्, एवमन्येऽपि, नवरं तालो वृक्षविशेषः, वल्ली कालिङ्ग्यादिका, मेंढविषाणा मेषशृङ्गसमानफला वनस्पतिजातिः, आउलिविशेष इत्यर्थः, तस्याः कोरकमिति विग्रहः, एतान्येव चत्वारि दृष्टान्ततयोपात्तानीति चत्वारीत्युक्तम्, न तु चत्वार्येव लोके कोरकाणि, बहुतरोपलम्भादिति, एवेत्यादि सुगमम्, नवरमुपनय एवम्- यः पुरुषः सेव्यमान उचितकाले उचितमुपकारफलं जनयत्यसावाम्रप्रलम्बकोरकसमानः, यस्त्वतिचिरेण सेवकस्य कष्टेन महदुपकारफलं करोति स तालप्रलम्बकोरकसमानः, यस्तु अक्लेशेनाचिरेण च ददाति स वल्लीप्रलम्बकोरकसमानः, यस्तु सेव्यमानोऽपि शोभनवचनान्येव ब्रूते उपकारं तु न कञ्चन करोति स मेण्ढविषाणकोरकसमानः, तत्कोरकस्य सुवर्णवर्णत्वादखाद्यफलदायकत्वाच्चेति । [सू० २४३] चत्तारि घुणा पन्नत्ता, तंजहा- तयक्खाते, छल्लिक्खाते,
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy