________________
चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः ।
२४९ कट्ठक्खाते, सारक्खाते । एवामेव चत्तारि भिक्खागा पन्नत्ता, तंजहातयक्खायसमाणे जाव सारक्खातसमाणे । तयक्खातसमाणस्स णं भिक्खागस्स सारक्खातसमाणे तवे पण्णत्ते, सारक्खायसमाणस्स णं भिक्खागस्स तयक्खातसमाणे तवे पण्णत्ते, छल्लिक्खायसमाणस्स णं भिक्खागस्स कट्ठक्खायसमाणे तवे पण्णत्ते, कट्ठक्खायसमाणस्स णं भिक्खागस्स छल्लिक्खायसमाणे तवे पण्णत्ते ।
[टी०] पुरुषाधिकार एव घुणसूत्रम्- त्वचं बाह्यवल्कं खादतीति त्वक्खादः, एवं शेषा अपि, नवरं छल्लि त्ति अभ्यन्तरं वल्कम्, काष्ठं प्रतीतम्, सारः काष्ठमध्यमिति दृष्टान्तः, एवमेवेत्याधुपनयसूत्रम्, भिक्षणशीला भिक्षणधर्माणो भिक्षणे साधवो वा भिक्षाकाः, त्वक्खादेन घुणेन समानोऽत्यन्तं सन्तोषितया आयामाम्लादिप्रान्ताहारभक्षकत्वात् त्वक्खादसमानः, एवं छल्लीखादसमानोऽलेपाहारकत्वात्, काष्ठखादसमानो निर्विकृतिकाहारतया, सारखादसमानः सर्वकामगुणाहारत्वादिति । एतेषां चतुर्णामपि भिक्षाकाणां तपोविशेषाभिधानसूत्रं तयक्खायेत्यादि सुगमम्, केवलमयं भावार्थः- त्वक्कल्पासाराहाराभ्यवहर्तुनिरभिष्वङ्गत्वात् कर्मभेदमङ्गीकृत्य वज्रसारं तपो भवतीत्यतोऽपदिश्यते सारक्खायसमाणे तवे त्ति, सारखादघुणस्य सारखादत्वादेव समर्थत्वात् वज्रतुण्डत्वाच्चेति । सारखादसमानस्योक्तलक्षणस्य साभिष्वङ्गतया त्वक्खादसमानं कर्मसारभेदं प्रत्यसमर्थं तपः स्यात्, त्वक्खादकघुणस्य हि त्वक्खादकत्वादेव सारभेदनं प्रत्यसमर्थत्वादिति । तथा छल्लीखादघुणसमानस्य भिक्षाकस्य त्वक्खादघुणसमानापेक्षया किञ्चिद्विशिष्टभोजित्वेन किञ्चित्साभिष्वङ्गत्वात् सारखादकाष्ठखादघुणसमानापेक्षया त्वसारभोजित्वेन निरभिष्वङ्गत्वाच्च कर्मभेदं प्रति काष्ठखादघुणसमानं तपः प्रज्ञप्तम्, नातितीव्रम्, सारखादघुणवत्, नाप्यतिमन्दादि, त्वक्छल्लीखादघुणवदिति भावः, तथा काष्ठखादघुणसमानस्य साधोः सारखादघुणसमानापेक्षया असारभोजित्वेन निरभिष्वङ्गत्वात् त्वक्छल्लीखादघुणसमानापेक्षया सारतरभोजित्वेन साभिष्वङ्गत्वाच्च छल्लीखादघुणसमानं तपः प्रज्ञप्तम्, कर्मभेदं प्रति न सारखादकाष्ठखादघुणवदतिसमर्थादि नापि त्वक्खादघुणवदतिमन्दमिति भावः,