________________
२४७
चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः । पुरुषजातसूत्रचतुर्भङ्गी। ‘एवं सुद्धे नामं एगे सुद्धमणे' चतुर्भङ्गी, एवं पुरुषेणापि, व्याख्या तु पूर्ववत् ।
चत्तारीत्यादि, शुद्धो बहिः, शुद्धमना अन्तः, एवं शुद्धसङ्कल्पः शुद्धप्रज्ञः शुद्धदृष्टिः शुद्धशीलाचारः शुद्धव्यवहारः शुद्धपराक्रम इति वस्त्रवर्जाः पुरुषा एव चतुर्भङ्गवन्तो वाच्याः, व्याख्या च प्रागिवेति, अत एवाह- एवमित्यादि ।
[सू० २४०] चत्तारि सुता पन्नत्ता, तंजहा- अतिजाते अणुजाते अवजाते कुलिंगाले ।
[टी०] पुरुषभेदाधिकार एवेदमाह- चत्तारि सुतेत्यादि । सुताः पुत्राः अइजाए त्ति पितुः सम्पदमतिलय जातः संवृत्तोऽतिक्रम्य वा तां यातः प्राप्तो विशिष्टतरसम्पदम्, समृद्धतर इत्यर्थः, इत्यतिजातोऽतियातो वा, ऋषभवत् । तथा अणुजाए त्ति अनुरूपः, सम्पदा पितुस्तुल्यो जातोऽनुजातः, पितृसम इत्यर्थः, महायशोवत्, आदित्ययशसा पित्रा तुल्यत्वात्तस्य । तथा अवजाए त्ति अप इत्यपसदो हीनः पितुः सम्पदो जातोऽपजातः, पितुः सकाशादीषद्धीनगुण इत्यर्थः, आदित्ययशोवत्, भरतापेक्षया तस्य हीनत्वात् । तथा कुलिंगाले त्ति कुलस्य स्वगोत्रस्याङ्गार इवाङ्गारो दृषकत्वादुपतापकत्वाद्वेति कण्डरीकवत्, एवं शिष्यचातुर्विध्यमप्यवसेयम्, सुतशब्दस्य शिष्येष्वपि प्रवत्तिदर्शनात, तत्रातिजातः सिंहगिर्यपेक्षया वैरस्वामिवत, अनुजातः शय्यंभवापेक्षया यशोभद्रवत्, अपजातो भद्रबाहुस्वाम्यपेक्षया स्थूलभद्रवत्, कुलाङ्गारः कूलवालकवदुदायिनृपमारकवद्वेति।
[सू० २४१] चत्तारि पुरिसजाता पन्नत्ता, तंजहा- सच्चे नामं एगे सच्चे, सच्चे नामं एगे असच्चे ४, एवं परिणते जाव परक्कमे ।
चत्तारि वत्था पन्नत्ता, तंजहा- सुती नामं एगे सुती, सुई नामं एगे असुई, चउभंगो ४। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा- सुती णामं एगे सुती, चउभंगो । एवं जहेव सुद्धेणं वत्थेणं भणितं तहेव सुतिणा वि, जाव परक्कमे । [टी०] तथा चत्तारीत्यादि, सत्यो यथावद्वस्तुभणनाद् यथाप्रतिज्ञातकरणाच्च, पुनः