________________
२४६
कथञ्चित् सूत्रार्थयोर्वा, तथा अनुज्ञापनी अवग्रहस्य, तथा पृष्टस्य केनाप्यर्थादेर्व्याकरणी प्रतिपादनीति । __ भाषाप्रस्तावाद् भाषाभेदानाह- [चत्तारि भासेत्यादि,] जातम् उत्पत्तिधर्मकम्, तच्च व्यक्तिवस्तु, अतो भाषाया जातानि व्यक्तिवस्तूनि भेदाः प्रकाराः भाषाजातानि, तत्र सन्तो मुनयो गुणाः पदार्था वा, तेभ्यो हितं सत्यमेकं प्रथमं सूत्रक्रमापेक्षया, भाष्यते सा तया वा भाषणं वा भाषा काययोगगृहीतवाग्योगनिसृष्टभाषाद्रव्यसंहतिः तस्या जातं प्रकारो भाषाजातम् ‘अस्त्यात्मे'त्यादिवत्, द्वितीयं सूत्रक्रमादेव मोसं ति प्राकृतत्वान्मृषा अनृतं 'नास्त्यात्मे' त्यादिवत्, तृतीयं सत्यमृषा तदुभयस्वभावम् ‘आत्माऽस्त्यकर्ते त्यादिवत्, चतुर्थमसत्यमृषा अनुभयस्वभावं 'देही'त्यादिवदिति ।
[सू० २३९] चत्तारि वत्था पन्नत्ता, तंजहा- सुद्धे णामं एगे सुद्धे १, सुद्धे णामं एगे असुद्धे २, असुद्धे णामं एगे सुद्धे ३, असुद्धे णामं एगे असुद्धे ४ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा- सुद्धे णामं एगे सुद्धे, चउभंगो ४ । एवं परिणत-रूवे वत्था सपडिवक्खा ।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा- सुद्धे णामं एगे सुद्धमणे, चउभंगो ४। एवं संकप्पे जाव परक्कमे ।
[टी०] पुरुषभेदनिरूपणायैवेयं त्रयोदशसूत्री चत्तारि वत्थेत्यादि स्पष्टा, नवरं शुद्धं वस्त्रं निर्मलतन्त्वादिकारणारब्धत्वात् पुनः शुद्धमागन्तुकमलाभावादिति, अथवा पूर्व शुद्धमासीदिदानीमपि शुद्धमेव, विपक्षौ सुज्ञानावेवेति, अथ दार्टान्तिकयोजना एवमेवेत्यादि, शुद्धो जात्यादिना पुनः शुद्धो निर्मलज्ञानादिगुणतया कालापेक्षया वेति चउभंगो त्ति चत्वारो भङ्गाः समाहृताः चतुर्भङ्गी चतुर्भङ्गं वा, पुल्लिँङ्गता चात्र प्राकृतत्वात्, तदयमर्थः- वस्त्रवच्चत्वारो भङ्गाः पुरुषेऽपि वाच्या इति । एवमिति यथा शुद्धात् शुद्धपदे परे चतुर्भङ्गं सदार्टान्तिकं वस्त्रमुक्तमेवं शुद्धपदप्राक्पदे परिणतपदे रूपपदे च चतुर्भङ्गानि वस्त्राणि सपडिवक्ख त्ति सप्रतिपक्षाणि सदार्टान्तिकानि वाच्यानीति, तथाहि- ‘चत्तारि वत्था पन्नत्ता, तंजहा– सुद्धे नामं एगे सुद्धपरिणए' चतुर्भङ्गी, एवमित्यादि