________________
२४५
चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः । उज्जु त्ति ऋजुः अवक्रो नामेति पूर्ववदेकः कश्चिद् वृक्षः तथा ऋजुः अविपरीतस्वभाव औचित्येन फलादिसम्पादनादित्येकः, द्वितीये द्वितीयं पदं वङ्क इति वक्रः, फलादौ विपरीतः, तृतीये प्रथमपदं वक्रः कुटिलः, चतुर्थः सुज्ञानः, अथवा पूर्वम् ऋजुरवक्रः, पश्चादपि ऋजुः अवक्रोऽथवा मूले ऋजुरन्ते च ऋजुरित्येवं चतुर्भङ्गी कार्येत्येष दृष्टान्तः १, पुरुषस्तु ऋजुः अवक्रो बहिस्तात् शरीरगति-वाक्-चेष्टादिभिस्तथा ऋजुरन्तर्निर्मायत्वेन सुसाधुवदित्येकः, तथा ऋजुस्तथैव वङ्क इति तु वक्रः अन्तर्मायित्वेन कारणवशप्रयुक्तार्जवभावदुःसाधुवदिति द्वितीयः, तृतीयस्तु कारणवशाद्दर्शितबहिरनार्जवोऽन्तर्निर्माय इति प्रवचनगुप्तिरक्षाप्रवृत्तसाधुवदिति, चतुर्थ उभयतो वक्रः, तथाविधशठवदिति, कालभेदेन वा व्याख्येयम् २ । __ अथ ऋजु– ऋजुपरिणत इत्यादिका एकादश चतुर्भङ्गिका लाघवार्थमतिदेशेनाहएवमित्यनेन ऋजुर्नाम ऋजुरित्यादिनोपदर्शितक्रमभङ्गकक्रमेण यथेति येन प्रकारेण, परिणत-रूपादिविशेषणनवकविशेषिततयेत्यर्थः, उन्नत-प्रणताभ्यां परस्परं प्रतिपक्षभूताभ्यां गमः सदृशपाठः कृतः, तथा तेन प्रकारेण परिणत-रूपादिविशेषिताभ्यामित्यर्थः, ऋजुवक्राभ्यामपि भणितव्यः, कियान् स इत्याह- जाव परक्कमे त्ति, ऋजुवक्रवृक्षसूत्रात् त्रयोदशसूत्रं यावदित्यर्थः, तत्र च ऋजु २ ऋजुपरिणत २ ऋजुरूप २ लक्षणानि षट् सूत्राणि वृक्षदृष्टान्त-पुरुषदार्टान्तिकस्वरूपाणि, शेषाणि तु मनःप्रभृतीनि सप्त अदृष्टान्तानीति १३ ।।
[सू० २३७] पडिमापडिवनस्स णमणगारस्स कप्पंति चत्तारि भासातो भासित्तए, तंजहा- जायणी, पुच्छणी, अणुन्नवणी, पुट्ठस्स वागरणी ।
[सू० २३८] चत्तारि भासाजाता पन्नत्ता, तंजहा- सच्चमेगं भासज्जातं, बीतियं मोसं, ततियं सच्चमोसं, चउत्थं असच्चमोसं ४ ।
[टी०] पुरुषविचार एवेदमाह- पडिमेत्यादि स्फुटम्, परं प्रतिमा भिक्षुप्रतिमा द्वादश समयप्रसिद्धास्ताः प्रतिपन्नः अभ्युपगतवान् यस्तस्य, याच्यतेऽनयेति याचनी पानकादेः दाहिसि मे एत्तो अन्नतरं पाणगजाय [ ]मित्यादिसमयप्रसिद्धक्रमेण, तथा प्रच्छनी मार्गादेः