SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रथममध्ययनम् एकस्थानकम् । सा च विचित्राभिप्रायपूर्वकत्वाद् वैक्रियलब्धिमतस्तथाविधशक्तिमत्त्वाच्चैकजीवस्याऽप्यनेकापि स्यादिति पर्यवसितम् । अथ बाह्यपुद्गलोपादान एवोत्तरवैक्रियं भवतीति कुतोऽवसीयते, येनेह सूत्रे अपरियाइत्ता इत्यनेन तद्विकुर्वणा व्यवच्छिद्यते ? इति चेत्, उच्यते, भगवतीवचनात्, तथाहि देवे णं भंते ! महिड्डिए जाव महाणुभागे बाहिरए पोग्गले अपरियाइत्ता पभू एगवन्नं एगरूवं विउव्वित्तए ?, गोयमा ! नो इणमट्टे समटे । देवे णं भंते ! बाहिरए पोग्गले परियाइत्ता पभू?, हंता पभु [भगवती० ६।९।२-३]त्ति, इह हि उत्तरवैक्रियं बाह्यपुद्गलादानाद् भवतीति विवक्षितमिति। [सू० १३] एगे मणे । एगा वयी । एगे कायवायामे । [टी०] एगे मणे त्ति मननं मनः औदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारः, मनोयोग इति भावः, मन्यते वाऽनेनेति मनो मनोद्रव्यमात्रमेवेति, तच्च सत्यादिभेदादनेकमपि संज्ञिनां वा असङ्ख्यातत्वादसङ्ख्यातभेदमप्येकम्, मननलक्षणत्वेन सर्वमनसामेकत्वादिति। एगा वइ त्ति वचनं वाक्, औदारिक-वैक्रिया-ऽऽहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारः, वाग्योग इति भावः, इयं च सत्यादिभेदादनेकाऽप्येकैव, सर्ववाचां वचनसामान्येऽन्तर्भावादिति । एगे कायवायामे त्ति चीयत इति काय: शरीरम्, तस्य व्यायामो व्यापारः कायव्यायामः, औदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेष इति भावः, स पुनरौदारिकादिभेदेन सप्तप्रकारोऽपि जीवानन्तत्वेनानन्तभेदोऽपि वा एक एव, कायव्यायामसामान्यादिति । यच्चैकस्यैकदा मनःप्रभृतीनामेकत्वं तत् सूत्र एव विशेषेण वक्ष्यति एगे मणे देवासुरे सू०३१]त्यादिनेति सामान्याश्रयमेवेहैकत्वं व्याख्यातमिति । [सू० १४] एगा उप्पा । [सू० १५] एगा वियती । [सू० १६] एगा वियच्चा। [टी०] उप्प त्ति प्राकृतत्वादुत्पादः, स चैक एकसमये एकपर्यायापेक्षया, न हि तस्य युगपदुत्पादद्वयादिरस्ति, अनपेक्षिततद्विशेषकपदार्थतया वैकोऽसाविति ।
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy