________________
चाष्टविधकर्मापेक्षयाऽष्टविधाऽपि द्वादशविधतपोजन्यत्वेन द्वादशविधाऽपि अकामक्षुत्पिपासा-शीता-ऽऽतप-दंशमशक-मलसहन-ब्रह्मचर्यधारणाद्यनेकविधकारणजनितत्वेनानेकविधाऽपि द्रव्यतो वस्त्रादेर्भावतः कर्मणामेवं द्विविधाऽपि वा निर्जरासामान्यादेकैवेति । ननु निर्जरा-मोक्षयोः कः प्रतिविशेषः ?, उच्यते, देशतः कर्मक्षयो निर्जरा, सर्वतस्तु मोक्ष इति ।
[सू० ११] एगे जीवे पाडिक्कएणं सरीरएणं । [टी०] इह च जीवो विशिष्टनिर्जराभाजनं प्रत्येकशरीरावस्थायामेव भवति न साधारणशरीरावस्थायामतः प्रत्येकशरीरावस्थस्य जीवस्य स्वरूपनिरूपणायाह- एगे जीवे इत्यादि, अथवा उक्ताः सामान्यतः प्रस्तुतशास्त्रव्युत्पादनीया जीवादयो नव पदार्थाः, साम्प्रतं जीवपदार्थं विशेषेण प्ररूपयन्नाह– 'एगे'त्ति एकः केवलो जीवितवान् जीवति जीविष्यति चेति जीवः प्राणधारणधर्मा आत्मेत्यर्थः, एकं जीवं प्रति गतं यच्छरीरं प्रत्येकशरीरनामकर्मोदयात् तत् प्रत्येकम्, तदेव प्रत्येककम्, दीर्घत्वादि प्राकृतत्वात्, तेन प्रत्येककेन, शीर्यत इति शरीरं देहः, तदेवानुकम्पितादिधर्मोपेतं शरीरकम्, तेन लक्षितः तदाश्रित्य एको जीव इत्यर्थः, अथवा णंकारौ वाक्यालङ्कारार्थी, तत एको जीवः प्रत्येकके शरीरे वर्त्तत इति वाक्यार्थः स्यादिति, इह च पाडिक्खएणं ति क्वचित् पाठो दृश्यते, स च न व्याख्यातः, अनवबोधाद्, इह च वाचनानामनियतत्वात् सर्वासां व्याख्यातुमशक्यत्वात् काञ्चिदेव वाचनां व्याख्यास्याम इति । [सू० १२] एगा जीवाणं अपरिआइत्ता विगुव्वणा।
[टी०] इह बन्ध-मोक्षादय आत्मधर्मा अनन्तरमुक्तास्ततस्तदधिकारादेवातः परमात्मधर्मान् एगा जीवाणं इत्यादिना एगे चरित्ते इत्येतदन्तेन ग्रन्थेनाह । एगा जीवाणं अपरियाइत्ता विगुव्वणा, एगा जीवाणं ति प्रतीतम्, अपरियाइत्त त्ति अपर्यादाय परितः समन्तादगृहीत्वा वैक्रियसमुद्घातेन बाह्यान् पुद्गलान् या विकुर्वणा भवधारणीयवैक्रियशरीररचनलक्षणा स्वस्मिन् स्वस्मिन् उत्पत्तिस्थाने जीवैः क्रियते सा एकैव, प्रत्येकमेकत्वाद्भवधारणीयस्येति, सकलवैक्रियशरीर्यपेक्षया वा भवधारणीयस्यैकलक्षणत्वात् कथञ्चिदिति, या पुनर्बाह्यपुद्गलपर्यादानपूर्विका सोत्तरवैक्रियरचनलक्षणा,