________________
प्रथममध्ययनम् एकस्थानकम् । आस्रवन्ति प्रविशन्ति तेन काण्यात्मनीत्यासवः, कर्मबन्धहेतुरिति भावः. स चेन्द्रियकषाया-ऽव्रत-क्रिया-योगरूपः क्रमेण पञ्च-चतुः-पञ्च-पञ्चविंशति-त्रिभेदः, उक्तं च
इंदिय ५ कसाय ४ अव्वय ५ किरिया २५ पण चउर पंच पणुवीसा । जोगा तिन्नेव भवे आसवभेया उ बायाला ॥ [ ] इति ।
तदेवमयं द्विचत्वारिंशद्विधः, अथवा द्विविधो द्रव्य-भावभेदात्, तत्र द्रव्याश्रवो जलान्तर्गतनावादौ तथाविधपरिणामेन छिट्टैर्जलप्रवेशनं भावाश्रवस्तु यज्जीवनावीन्द्रियादिच्छिद्रतः कर्मजलसञ्चय इति । स चाश्रवसामान्यादेक एवेति । __ अथाश्रवप्रतिपक्षभूतसंवरस्वरूपमाह- एगे संवरे, संव्रियते कर्मकारणं प्राणातिपातादि रुध्यते येन परिणामेन स संवरः, आश्रवनिरोध इत्यर्थः, स च समिति-गुप्तिधा-ऽनुप्रेक्षा-परीषह-चारित्ररूपः क्रमेण पञ्च-त्रि-दश-द्वादश-द्वाविंशति-पञ्चभेदः, आह च
समिई ५ गुत्ती ३ धम्मो १० अणुपेह १२ परीसहा २२ चरित्तं च ५ । सत्तावन्नं भेया पणतिगभेयाइ संवरणे ॥ [ ] त्ति ।
अथवाऽयं द्विधा- द्रव्यतो भावतश्च । तत्र द्रव्यतो जलमध्यगतनावादेरनवरतप्रविशज्जलानां छिद्राणां तथाविधद्रव्येण स्थगनं संवरः, भावतस्तु जीवद्रोण्यामाश्रवत्कर्मजलानामिन्द्रियादिच्छिद्राणां समित्यादिना निरोधनं संवर इति, स च द्विविधोऽपि संवरसामान्यादेक इति भावः। स च ज्ञानावरणीयादि कर्मापेक्षयाऽष्टविधोऽपि संवरसामान्यादेक इति ।
[सू० १०] एगा वेयणा । एगा निजरा ।
[टी०] संवरविशेषे चायोग्यवस्थारूपे कर्मणां वेदनैव भवति न बन्ध इति वेदनास्वरूपमाह-एगा वेयणा, वेदनं वेदना स्वभावेनोदीरणाकरणेन वोदयावलिकाप्रविष्टस्य कर्मणोऽनुभवनमिति भावः, सा च ज्ञानावरणीयादिकापेक्षया अष्टविधाऽपि, विपाकोदय-प्रदेशोदयापेक्षया वा द्विविधाऽपि, आभ्युपगमिकी शिरोलोचादिका
औपक्रमिकी रोगादिजनितेत्येवं वा द्विविधाऽपि वेदनासामान्यादेकैवेति । __ अनुभूतरसं कर्म प्रदेशेभ्यः परिशटतीति वेदनानन्तरं कर्मपरिशटनरूपां निर्जरां निरूपयन्नाह- एगा निज्जरा, निर्जरणं निर्जरा, विशरणं परिशटनमित्यर्थः, सा