________________
२३८
वसायतश्चितवन्त: आसकलनत एवमुपचितवन्तः परिपोषणत एवं बद्धवन्तो निर्मापणतः उदीरितवन्तः अध्यवसायवशेनानुदीर्णोदयप्रवेशनतः वेदितवन्तः अनुभवनतः निर्जरितवन्तः प्रदेशपरिशाटनतः, सङ्ग्रहणीगाथार्द्धमत्र- एवं चिण उवचिण बंध उदीर वेय तह निज्जरा चेव त्ति एवमिति यथैकं कालत्रयाभिलापेनोक्तं तथा सर्वाण्यपीति ।
[सू० २३४] तिपतेसिता खंधा अणंता पण्णत्ता, एवं जाव तिगुणलुक्खा पोग्गला अणंता पन्नत्ता ।
॥ तिट्ठाणं समत्तं ॥ [टी०] कर्म च पुद्गलात्मकमिति पुद्गलस्कन्धान प्रति त्रिस्थानकमाह-तिपएसिएत्यादि स्पष्टमिति, सर्वसूत्रेषु व्याख्यातशेष कण्ठ्यमिति ॥
॥ त्रिस्थानकस्य चतुर्थोद्देशकः समाप्तः ॥ इति श्रीमत्तपागच्छाधिराजभट्टारकपुरन्दरसूरीश्वरश्रीविजयसेनसूरिराज्ये
श्रीमत्तपागच्छश्रृंगारहारसूरीश्वरश्रीविजयदेवसूरियौवराज्ये पण्डितश्रीकुशलवर्धनगणिशिष्यनगर्षिगणिना स्ववाचनपरोपकारकृते कृतोद्धाररूपयां श्रीसकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिभिः संशोधितायां सुखावबोधायां श्रीस्थानाङ्गदीपिकायां त्रिस्थानकाख्यं तृतीयमध्ययनं
समाप्तम्।