________________
२३६
अभीत्यादिसूत्राणि सप्त कण्ठ्यानीति ।
[सू० २२८] धम्मातो णं अरहाओ संती अरहा तिहिं सागरोवमेहिं तिचउब्भागपलिओवमऊणएहिं वीतिकंतेहिं समुप्पन्ने ।
[सू० २२९] समणस्स णं भगवओ महावीरस्स जाव तच्चाओ पुरिसजुगाओ जुगंतकरभूमी ।
मल्ली णं अरहा तिहिं पुरिससएहिं सद्धिं मुंडे भवित्ता जाव पव्वतिते, एवं पासे वि ।
[सू० २३०] समणस्स णं भगवतो महावीरस्स तिनि सया चउद्दसपुव्वीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवातीणं जिणो इव अवितहं वागरमाणाणं उक्कोसिया चउद्दसपुव्विसंपया होत्था ।। [सू० २३१] तओ तित्थयरा चक्कवट्टी होत्था, तंजहा-संती कुंथू अरो
टी०] परम्परसूत्रे क्षीणमोहस्य त्रिस्थानकमुक्तम्, अधुना तद्विशेषाणां तीर्थकृतां तदाह- धम्मेत्यादि प्रकरणम्, तिचउब्भाग त्ति त्रिभिश्चतुर्भागैः पादैः पल्योपमस्य सत्कैरूनानि त्रिचतुर्भागपल्योपमोनानि तैर्व्यतिक्रान्तैरिति।
समणस्सेत्यादि, युगानि पञ्चवर्षमानानि कालविशेषा लोकप्रसिद्धानि वा कृतयुगादीनि तानि च क्रमव्यवस्थितानि ततश्च पुरुषा गुरुशिष्यक्रमिणः पितापुत्रक्रमवन्तो वा युगानीव पुरुषयुगानि, पुरुषसिंहवत् समासः, ततश्च पञ्चम्या द्वितीयार्थत्वात् तृतीयं पुरुषयुगं यावत्, जम्बूस्वामिनं यावदित्यर्थः, युग त्ति पुरुषयुगं तदपेक्षयाऽन्तकराणां भवान्तकारिणां निर्वाणगामिनामित्यर्थः, भूमिः कालो युगान्तकरभूमिः, इदमुक्तं भवति– भगवतो वर्द्धमानस्वामिनस्तीर्थे तस्मादेवावधेस्तृतीयं पुरुषं जम्बूस्वामिनं यावनिर्वाणमभूत्, तत उत्तरं तद्व्यवच्छेद इति १ ।
मल्लीत्यादि सूत्रद्वयम्, तत्र संवादः- एगो भगवं वीरो पासो मल्ली य तिहिं तिहिं सतेहिं [आव० नि०२२४, विशेषाव० १६४२] ति, मल्लिजिनः स्त्रीशतैरपि त्रिभिः ।
समणेत्यादि, अजिणाणं ति असर्वज्ञत्वेन जिनसंकाशानां सकलसंशयच्छेदकत्वेन,