________________
तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः ।
२३५ नेरइया णमित्यादि, त्रयः समयास्त्रिसमयं तद्यत्रास्ति स त्रिसमयिकस्तेन विग्रहेण वक्रगमनेन, उक्कोसेणं ति त्रसानां हि त्रसनाड्यन्तरुत्पादात् वक्रद्वयं भवति, तत्र च त्रय एव समयाः, तथाहि- आग्नेयदिशो नैर्ऋतदिशमेकेन समयेन गच्छति, ततो द्वितीयेन समश्रेण्याऽधः, ततस्तृतीयेन वायव्यदिशि समश्रेण्यैवेति, सानामेव त्रसोत्पत्तावेवंविध उत्कर्षेण विग्रह इत्याह-एगेंदियेत्यादि, एकेन्द्रियास्त्वेकेन्द्रियेषु पञ्चसामयिकेनाप्युत्पद्यन्ते, यतस्ते बहिस्तात् त्रसनाडीतो बहिरप्युत्पद्यन्ते, तथाहिविदिसाउ दिसं पढमे बीए पइसरइ लोयनाडीए । तइए उप्पिं धावइ चउत्थए नीइ बाहिं तु ॥ पंचमए विदिसीए गंतुं उप्पज्जए उ एगिंदी [ ] ति, सम्भव एवायम्, भवति तु चतुःसामयिक एव, भगवत्यां तथोक्तत्वादिति, तथाहि- अपज्जत्तगसुहुमपुढविकाइए णं भंते ! अहेलोगखेत्तनालीए बाहिरिल्ले खेत्ते समोहए समोहणित्ता जे भविए उड्डलोयखेत्तनालीए बाहिरिल्ले खेत्ते अपज्जत्तसुहुमपुढविकाइयत्ताए उववज्जित्तए से णं भंते ! कतिसमइएणं विग्गहेणं उववज्जेज्जा ?, गो० ! तिसमइएण वा चउसमइएण वा विगहेण उववज्जेज्जा [भगवती० ३४।१।३८] इत्यादि ।
अत उक्तम्- एगिदियवज्जं ति, यावद्वैमानिकानामिति वैमानिकान्तानां जीवानां त्रिसामयिक उत्कर्षेण विग्रहो भवतीति भावः ।
[सू० २२६] खीणमोहस्स णं अरहतो ततो कम्मंसा जुगवं खिजंति, तंजहा-नाणावरणिजं दंसणावरणिज्जं अंतरातियं ।
मोहवतां त्रिस्थानकमभिधायाधुना क्षीणमोहस्य तदाह- खीणेत्यादि, क्षीणमोहस्य क्षीणमोहनीयकर्मणोऽर्हतो जिनस्य त्रयः कर्मांशाः कर्मप्रकृतय इति, उक्तं च
चरमे नाणावरणं पंचविहं दंसणं चउविगप्पं । पंचविहमंतरायं खवइत्ता केवली होइ ॥ [ ] त्ति । शेष कण्ठ्य म् । [सू० २२७] अभितीणक्खत्ते तितारे पन्नत्ते १॥ एवं सवणे २, अस्सिणी ३, भरणी ४, मगसिरे ५, पूसे ६, जेट्ठा ७। [टी०] अनन्तरमशाश्वतानां त्रिस्थानकमुक्तम्, अधुना शाश्वतानां तदाह