________________
२३४ ननुगामिकत्वाय अशुभानुबन्धाय भवन्ति, सेणं ति यस्य त्रीणि स्थानान्यहितादित्वाय भवन्ति स शङ्कितो देशतः सर्वतो वा संशयवान्, काक्षितस्तथैव मतान्तरस्यापि साधुत्वेन मन्ता, विचिकित्सितः फलं प्रति शङ्कोपेतः, अत एव भेदसमापन्नो द्वैधीभावमापन्नः एवमिदं न वैवमितिमतिकः, कलुषसमापन्नो नैतदेवमितिप्रतिपत्तिकः, ततश्च निर्ग्रन्थानामिदं नैर्ग्रन्थं प्रशस्तं प्रगतं प्रथमं वा वचनमिति प्रवचनम् आगमः, दीर्घत्वं प्राकृतत्वात्, न श्रद्धत्ते सामान्यतो न प्रत्येति न प्रीतिविषयीकरोति नो रोचयति न चिकीर्षाविषयीकरोति तमिति य एवंभूतस्तं प्रव्रजिताभासं परिषह्यन्त इति परीषहाः क्षुदादयः अभियुज्य अभियुज्य सम्बन्धमुपगत्य प्रतिस्पर्धय वा अभिभवन्ति न्यक्कुर्वन्तीति, शेषं सुगमम् ।
उक्तविपर्ययसूत्रं प्राग्वत्, किन्तु हितम् अदोषकरमिह परत्र चात्मनः परेषां च पथ्यान्नभोजनवत्, सुखम् आनन्दस्तृषितस्य शीतलजलपान इव, क्षमम् उचितं तथाविधव्याधिव्याघातकौषधपानमिव, निःश्रेयसं निश्चितं श्रेयः प्रशस्यं भावतः पञ्चनमस्कारकरणमिव, अनुगामिकम् अनुगमनशीलं भास्वरद्रव्यजनितच्छायेवेति ।
[सू० २२४] एगमेगा णं पुढवी तिहिं वलएहिं सव्वओ समंता संपरिक्खित्ता, तंजहा-घणोदधिवलएणं, घणवातवलएणं, तणुवायवलएणं ।
[टी०] अयं चैवंविधः साधुरिहैव पृथिव्यां भवतीत्यर्थेन सम्बन्धेन पृथिवीस्वरूपमाहएगमेगेत्यादि, एकैका पृथ्वी रत्नप्रभादिका सर्व्वतः, किमुक्तं भवति ? समन्तात्, अथवा दिक्षु विदिक्षु चेत्यर्थः, सम्परिक्षिप्ता वेष्टिता, आभ्यन्तरं घनोदधिवलयं ततः क्रमेणेतरे, तत्र घनः स्त्यानो हिमशिलावत् उदधिः जलनिचयः, स चासौ स चेति घनोदधिः, स एव वलयमिव वलयं कटकं घनोदधिवलयम्, तेन, एवमितरे अपि, नवरं घनश्चासौ वातश्च तथाविधपरिणामोपेतो घनवातः, एवं तनुवातोऽपि तथाविधपरिणाम एवेति ।
[सू० २२५] णेरइया णं उक्कोसेणं तिसमइएणं विग्गहेणं उववजंति, एगिदियवजं जाव वेमाणियाणं ।
[टी०] एतासु च पृथिवीषु नारका एव उत्पद्यन्त इति तदुत्पत्तिविधिमभिधातुमाह