________________
तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः ।
२३१ इहापि जिनवद् व्याख्या, अर्हन्ति देवादिकृतां पूजामित्यर्हन्तः, अथवा नास्ति रहः प्रच्छन्नं किञ्चिदपि येषां प्रत्यक्षज्ञानित्वात्ते अरहसः, शेष प्राग्वत् ।
[सू० २२१] तओ लेसाओ दुब्भिगंधाओ पन्नत्ताओ, तंजहा-कण्हलेसा, णीललेसा, काउलेसा १। तओ लेसाओ सुब्भिगंधाओ पन्नत्ताओ, तंजहातेऊ, पम्हा, सुक्कलेसा २। एवं दोग्गतिगामिणीओ ३, सोग्गतिगामिणीओ ४, संकिलिट्ठाओ ५, असंकिलिट्ठाओ ६, अमणुनाओ ७, मणुन्नाओ ८, अविसुद्धाओ ९, विसुद्धाओ १०, अप्पसत्थाओ ११, पसत्थाओ १२, सीतलुक्खाओ १३, णि ण्हाओ १४॥ ___ [टी०] एते च सलेश्या अपि भवन्तीति लेश्याप्रकरणमाह- तओ इत्यादि सुगमम्, नवरं दुब्भिगंधाओ त्ति दुरभिगन्धा दुर्गन्धाः, दुरभिगन्धत्वं च तासां पुद्गलात्मत्कत्वात्, पुद्गलानां च गन्धादीनाम् अवश्यं भावादिति, आह च
जह गोमडस्स गंधो सुणगमडस्स व जहा अहिमडस्स । एत्तो वि अणंतगुणो लेसाणं अप्पसत्थाणं ॥ [उत्तरा० ३४।१६] ति । नामानुसारी चासां वर्णः, कपोतवर्णा लेश्या कपोतलेश्या, धूम्रवर्णेत्यर्थः । सुब्भिगंधाओ त्ति सुरभिगन्धाः, आह चजह सुरभिकुसुमगंधो [उत्तरा० ३४।१७) इत्यादि ।
तेजो वह्निस्तद्वर्णा लेश्या, लोहितवर्णेत्यर्थः, तेजोलेश्येति । पद्मगर्भवर्णा लेश्या, पीतवर्णेत्यर्थः, पद्मलेश्या । शुक्ला प्रतीता, एवंकरणात् प्रथमसूत्रवत् तओ इत्याद्यभिलापेन शेषसूत्राण्यध्येतव्यानीति, तत्र दुर्गतिं नरक-तिर्यग्रूपां गमयन्ति प्राणिनमिति दुर्गतिगामिन्यः, सुगति: मनुष्य-देवगतिरूपा, सक्लिष्टाः सङ्क्लेशहेतुत्वादिति, विपर्ययः सर्वत्र सुज्ञानः, अमनोज्ञाः अमनोज्ञरसोपेतपुद्गलमयत्वात्, अविशुद्धा वर्णतः, अप्रशस्ता: अश्रेयस्योऽनादेया इत्यर्थः, शीतरूक्षा: स्पर्शतः आद्याः, द्वितीयास्तु स्निग्धोष्णा: स्पर्शत एवेति ।
[सू० २२२] तिविहे मरणे पन्नत्ते, तंजहा-बालमरणे, पंडियमरणे, बालपंडियमरणे १।