________________
२३२
बालमरणे तिविहे पन्नत्ते, तंजहा-ठितलेस्से, संकि लिट्ठलेस्से, पज्जवजातलेस्से २॥
पंडियमरणे तिविहे पन्नत्ते, तंजहा-ठितलेस्से, असंकिलिट्ठलेस्से, पजवजातलेस्से ३।
बालपंडितमरणे तिविहे पन्नत्ते, तंजहा-ठितलेस्से, असंकिलिट्ठलेस्से, अपजवजातलेस्से ४।
[टी०] अनन्तरं लेश्या उक्ताः, अधुना तद्विशेषितमरणनिरूपणायाह- तिविहेत्यादि सूत्रचतुष्टयम्, बाल: अज्ञः, तद्वद् यो वर्त्तते विरतिसाधकविवेकविकलत्वात् स बालः असंयतः, तस्य मरणं बालमरणम्, एवमितरे, केवलं ‘पडि' धातोर्गत्यर्थत्वेन ज्ञानार्थत्वाद्विरतिफलेन फलवद्विज्ञानयुक्तत्वात् पण्डितो बुद्धतत्त्वः, संयत इत्यर्थः, तथा अविरतत्वेन बालत्वाद्विरतत्वेन च पण्डितत्वाद् बालपण्डितः संयतासंयत इति। स्थिता अवस्थिता अविशुध्यन्त्यसक्लिश्यमाना च लेश्या कृष्णादिर्यस्मिन् तत् स्थितलेश्यम्, सक्लिष्टा सक्लिश्यमाना सङ्क्लेशमागच्छन्तीत्यर्थः, सा लेश्या यस्मिंस्तत्तथा, तथा पर्यवा: पारिशेष्याद्विशुद्धिविशेषाः प्रतिसमयं जाता यस्यां सा तथा, विशुद्ध्या वर्द्धमानेत्यर्थः, सा लेश्या यस्मिंस्तत्तथेति । तत्र प्रथमं कृष्णादिलेश्यः सन् यदा कृष्णादिलेश्येष्वेव नारकादिषूत्पद्यते तदा प्रथमं भवति, यदा तु नीलादिलेश्यः सन् कृष्णादिलेश्येषूत्पद्यते तदा द्वितीयम्, यदा पुनः कृष्णलेश्यादिः सन् नीलकापोतलेश्येषूत्पद्यते तदा तृतीयम् । उक्तं चान्त्यद्वयसंवादि भगवत्यां यदुतसे णूणं भंते ! कण्हलेसे नीललेसे जाव सुक्कलेसे भवित्ता काउलेसेसु नेरइएसु उववज्जइ?, हंता, गोयमा !, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा ! लेसाठाणेसु संकिलिस्समाणेसु वा विसुज्झमाणेसु वा काउलेस्सं परिणमइ २ काउलेसेसुनेरइएसु उववज्जाभगवती० १३।१।२९३०]त्ति । एतदनुसारेणोत्तरसूत्रयोरपि स्थितलेश्यादिविभागो नेय इति । पण्डितमरणे सक्लिश्यमानता लेश्याया नास्ति संयतत्वादेवेत्ययं बालमरणाद्विशेषः । बालपण्डितमरणे तु सक्लिश्यमानता विशुध्यमानता च लेश्याया नास्ति, मिश्रत्वादेवेत्ययं विशेष इति । एवं च पण्डितमरणं वस्तुतो द्विविधमेव, सक्लिश्यमानलेश्यानिधे अवस्थितवर्द्धमानलेश्यत्वात् तस्य, त्रिविधत्वं तु व्यपदेशमात्रादेव, बालपण्डितमरणं त्वेकविधमेव,