________________
२३०
क्वचिदिन्द्रियार्थे अध्युपपत्तिरभिष्वङ्ग इत्यर्थः, तत्र जानतो विषयजन्यमनर्थं या तत्राध्युपपत्तिः सा जाणू, या त्वजानतः सा अजाणू, या तु संशयवतः सा विचिकित्सेति, परियावज्जण त्ति पर्यापदनं पर्यापत्तिरासेवेति यावत्, साऽप्येवमेवेति ।।
[सू० २१९] तिविधे अंते पन्नत्ते, तंजहा-लोगंते, वेयंते, समयंते ।
[टी०] जाणु त्ति ज्ञः, स च ज्ञानात् स्यादित्युक्तम्, ज्ञानं चातीन्द्रियार्थेषु प्रायः शास्त्रादिति शास्त्रभेदेन तद्भेदानाह- तिविहे अंते इत्यादि, अमनमधिगमनमन्तः परिच्छेदः, तत्र लोको लोकशास्त्रं तत्कृतत्वात् तदध्येयत्वाच्चार्थशास्त्रादिः तस्मादन्तो निर्णयस्तस्य वा परमरहस्यं पर्यन्तो वेति लोकान्तः, एवमितरावपि, नवरं वेदा ऋगादयः ४, समया जैनादिसिद्धान्ता इति ।।
[सू० २२०] ततो जिणा पन्नत्ता, तंजहा-ओहिणाणजिणे, मणपजवणाणजिणे, केवलणाणजिणे १।
ततो केवली पन्नत्ता, तंजहा-ओहिनाणकेवली, मणपजवनाणकेवली, केवलनाणकेवली २॥
तओ अरहा पन्नत्ता, तंजहा-ओहिनाणअरहा, मणपजवनाणअरहा, केवलनाणअरहा ३॥
[टी०] अनन्तरं समयान्त उक्तः, समयश्च जिन-केवल्यर्हच्छब्दवाच्यैरुक्तः सम्यग् भवतीति जिनादिशब्दवाच्यभेदानभिधातुं त्रिसूत्रीमाह- तओ जिणेत्यादि, सुगमा, नवरं राग-द्वेष-मोहान् जयन्तीति जिना: सर्वज्ञाः, उक्तं च
रागो द्वेषस्तथा मोहो जितो येन जिनो ह्यसौ । अस्त्री-शस्त्रा-ऽक्षमालत्वादर्हन्नेवानुमीयते ॥ [ ] इति ।
तथा जिना इव ये वर्तन्ते निश्चयप्रत्यक्षज्ञानतया तेऽपि जिनाः, तत्रावधिज्ञानप्रधानो जिनोऽवधिजिनः, एवमितरावपि, नवरमाद्यावुपचरितावितरो निरुपचारः, उपचारकारणं तु प्रत्यक्षज्ञानित्वमिति, केवलम् एकमनन्तं पूर्णं वा ज्ञानादि येषामस्ति ते केवलिनः, उक्तं च
कसिणं केवलकप्पं लोगं जाणंति तह य पासंति । केवलचरित्तणाणी तम्हा ते केवली होति ॥ [आव० नि० १०९२] त्ति ।