SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २२९ तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः । सुतवस्सिते सुतक्खाते णं भगवता धम्मे पण्णत्ते । [टी०] धार्मिककरणमनन्तरमुक्तम्, तच्च धर्म एवेति तद्भेदानाह- तिविहेत्यादि स्पष्टम्, केवलं भगवता महावीरेणेत्येवं जगाद सुधर्मस्वामी जम्बूस्वामिनं प्रतीति, सुष्ठ काल-विनयाद्याराधनेनाऽधीतं गुरुसकाशात् सूत्रतः पठितं स्वधीतम्, तथा सुष्ठ विधिना तत एव व्याख्यानेनाऽर्थतः श्रुत्वा ध्यातम् अनुप्रेक्षितम्, श्रुतमिति गम्यम्, सुध्यातम्, अनुप्रेक्षणाऽभावे तत्त्वानवगमेनाऽध्ययन-श्रवणयोः प्रायोऽकृतार्थत्वादिति, अनेन भेदद्वयेन श्रुतधर्म उक्तः, तथा सुष्ठ इहलोकाद्याशंसारहितत्वेन तपसितं तपस्यानुष्ठानं सुतपसितमिति च चारित्रधर्म उक्त इति, त्रयाणामप्येषामुत्तरोत्तरतोऽविनाभावं दर्शयतिजया इत्यादि व्यक्तम्, परं निर्दोषाध्ययनं विना श्रुतार्थाप्रतीतेः सुध्यातं न भवति, तदभावे ज्ञानविकलतया सुतपसितं न भवतीति भावः, यदेतत् स्वधीतादित्रयं भगवता वर्द्धमानस्वामिना धर्मः प्रज्ञप्तः से त्ति स स्वाख्यातः सुष्ठुक्तः सम्यग्ज्ञानक्रियारूपत्वात्, तयोश्चैकान्तिकात्यन्तिकसुखावन्ध्योपायत्वेन निरुपचरितधर्मत्वात्, सुगतिधारणाद्धि धर्म इति, उक्तं च नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो । तिण्हं पि समाओगे मोक्खो जिणसासणे भणिओ ॥ [आव० नि० १०३] त्ति । णमिति वाक्यालङ्कारे । [सू० २१८] तिविधा वावत्ती पन्नत्ता, तंजहा-जाणू, अजाणू, वितिगिंच्छा। एवमज्झोववज्जणा, परियावज्जणा । [टी०] सुतपसितमिति चारित्रमुक्तम्, तच्च प्राणातिपातादिविनिवृत्तिस्वरूपमिति तस्या भेदानाह-तिविहेत्यादि, व्यावर्त्तनं व्यावृत्तिः, कुतोऽपि हिंसाद्यवधेर्निवृत्तिरित्यर्थः, सा च या ज्ञस्य हिंसादेर्हेतु-स्वरूप-फलविदुषो ज्ञानपूर्विका व्यावृत्तिः सा तदभेदात् जाणु त्ति गदिता, या त्वज्ञस्याज्ञानात् सा अजाणू इत्यभिहिता, या तु विचिकित्सातः संशयात् सा निमित्त-निमित्तिनोरभेदाद्विचिकित्सेत्यभिहिता । व्यावृत्तिरित्यनेनाऽऽन्तरं चारित्रमुक्तं तद्विपक्षश्चाशुभाध्यवसाया-ऽनुष्ठाने इति तयोरधुना भेदानतिदेशत आहएवमित्यादिसूत्रे, एवमिति व्यावृत्तिरिव त्रिधा अज्झोववज्जण त्ति अध्युपपदनं
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy