SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२८ विषया, मिश्रा अलक़तदेव्यादिरूपा ३ । अतियानं नगरप्रवेशः, तत्र ऋद्धिः तोरणहट्टशोभा-जनसम्म दिलक्षणा, निर्याणं नगरान्निर्गमः, तत्र ऋद्धिः हस्तिकल्पनसामन्तपरिवारणादिका, बलं चतुरङ्गम्, वाहनानि वेगसरादीनि, कोशो भाण्डागारम्, कोष्ठा धान्यभाजनानि, तेषामगारं गेहं कोष्ठागारं धान्यगृहमित्यर्थः, तेषां तान्येव वा ऋद्धिर्या सा तथा ४ । सचित्तादिका पूर्ववद् भावनीयेति ५ । ज्ञानर्द्धिर्विशिष्टश्रुतसम्पत्, दर्शनर्द्धिः प्रवचने निःशकितादित्वं प्रवचनप्रभावक-शास्त्रसम्पद्वा, चारित्रर्द्धिनिरतिचारता ६ । सचित्ता शिष्यादिका, अचित्ता वस्त्रादिका, मिश्रा तथैवेति ७ । इह च विकुर्वणादिऋद्धयोऽन्येषामपि भवन्ति, केवलं देवादीनां विशेषवत्यस्ता इति तेषामेवोक्ता इति । [सू० २१५] ततो गारवा पन्नत्ता, तंजहा-इड्ढीगारवे रसगारवे सातगारवे। [टी०] ऋद्धिसद्भावे च गौरवं भवतीति तद्भेदानाह- तओ गारवेत्यादि व्यक्तम्, परं गुरोर्भावः कर्म वेति गौरवम्, तच्च द्वेधा द्रव्यतो वज्रादेर्भावतोऽभिमानलोभलक्षणाशुभभावत आत्मनः, तत्र भावगौरवं त्रिधा, तत्र ऋद्ध्या नरेन्द्रादिपूजालक्षणया आचार्यत्वादिलक्षणया वा अभिमानादिद्वारेण गौरवम् ऋद्धिगौरवम्, ऋद्धिप्राप्त्यभिमानाऽप्राप्तप्रार्थनाद्वारेणात्मनोऽशुभभावो भावगौरवमित्यर्थः, एवमन्यत्रापि, नवरं रसो रसनेन्द्रियार्थो मधुरादिः, सातं सुखमिति, अथवा ऋद्ध्यादिषु गौरवमादर इति । [सू० २१६] तिविधे करणे पन्नत्ते, तंजहा-धम्मिते करणे, अधम्मिए करणे, धम्मिताधम्मिते करणे । [टी०] अनन्तरं चारित्रर्द्धिरुक्ता, चारित्रं च करणमिति तद्भेदानाह– तिविहेत्यादि, कृतिः करणमनुष्ठानम्, तच्च धार्मिकादिस्वामिभेदेन त्रिविधम्, तत्र धार्मिकस्य संयतस्येदं धार्मिकमेवमितरे, नवरमधार्मिकः असंयतः, तृतीयो देशसंयतः । अथवा धर्मे भवं धर्मो वा प्रयोजनमस्येति धार्मिकम्, विपर्यस्तमितरत्, एवं तृतीयमपीति। [सू० २१७] तिविहे भगवता धम्मे पन्नत्ते, तंजहा-सुअधिजिते सुज्झातिते सुतवस्सिते । जया सुअधिज्जितं भवति तदा सुज्झातियं भवति, जया सुज्झातितं भवति तदा सुतवस्सितं भवति । से सुअधिजिते सुज्झातिते
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy