________________
तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः ।।
२२७ देविड्डी तिविहा पन्नत्ता, तंजहा-विमाणिड्डी, विगुव्वणिड्डी, परियारणिड्डी २। अहवा देविड्डी तिविधा पन्नत्ता, तंजहा-सचित्ता, अचित्ता, मीसिता ३। ___ राइड्डी तिविधा पन्नत्ता, तंजहा-रण्णो अतियाणिड्डी, रणो निजाणिड्डी, रणो बल-वाहण-कोस-कोट्ठागारिड्डी ४। अहवा रातिड्डी तिविहा पन्नत्ता, तंजहा-सचित्ता, अचित्ता, मीसिता ५।
गणिड्डी तिविहा पन्नत्ता, तंजहा-णाणिड्डी, दंसणिड्डी, चरित्तिड्डी ६। अहवा गणिड्डी तिविहा पन्नत्ता, तंजहा-सचित्ता, अचित्ता, मीसिया ७। ___ [टी०] अनन्तरमभिसमागम उक्तः, स च ज्ञानम्, तच्चर्द्धिरिहैव वक्ष्यमाणत्वादिति ऋद्धिसाधर्म्यात् तद्भेदानाह- तिविहा इड्डी इत्यादिसूत्राणि सप्त सुगमानि, नवरं देवस्य इन्द्रादेर्ऋद्धिः ऐश्वर्यं देवर्द्धिः, एवं राज्ञः चक्रवर्त्यादेर्गणिनो गणाधिपतेराचार्यस्येति १। विमानानां विमानलक्षणा वा ऋद्धिः समृद्धिः, द्वात्रिंशल्लक्षादिकं बाहुल्यं महत्त्वं रत्नादिरमणीयत्वं चेति विमानर्द्धिः, भवति च द्वात्रिंशल्लक्षादिकं सौधर्मादिषु विमानबाहुल्यम्, यथोक्तम्
बत्तीस अट्ठवीसा बारस अट्ट य चउरो सयसहस्सा । आरेण बंभलोगा विमाणसंखा भवे एसा ॥ पंचास चत्त छच्चेव सहस्सा लंत-सुक्क-सहसारे । सय चउरो आणय-पाणएसु तिन्नारण-ऽच्चुयए । एक्कारसुत्तरं हेट्टिमेसु सत्तुत्तरं च मज्झिमए । सयमेगं उवरिमए पंचेव अणुत्तरविमाणा ॥ [बृहत्सं० ११७-११९] इति ।
उपलक्षणं चैतत् भवन-नगराणामिति । वैक्रियकरणलक्षणा ऋद्धिक्रियर्द्धिः, वैक्रियशरीरैर्हि जम्बूद्वीपद्वयमसङ्ख्यातान् वा द्वीप-समुद्रान् पूरयन्तीति, उक्तं च भगवत्याम्- चमरे णं भंते ! केमहिड्डिए जाव केवतियं च णं पभू विउव्वित्तए ?, गोयमा! चमरे णं जाव पभू णं केवलकप्पं जंबुद्दीवं दीवं बहूहिं असुरकुमारेहिं देवेहि य देवीहि य आइन्नं जाव करेत्तए [भगवती० ३।१।३,१५] इत्यादि । परिचारणा कामासेवा, तदृद्धिः अन्यान् देवानन्यसत्का देवीः स्वकीया देवीरभियुज्यात्मानं च विकृत्य परिचारयतीत्येवमुक्तलक्षणेति २। सचित्ता स्वशरीरा-ऽग्रमहिष्यादिसचेतनवस्तुसम्पत्, अचेतना वस्त्राऽऽभरणादि