________________
२२४
भावं ज्ञानादिं प्रतीत्य प्रत्यनीकस्तेषां वितथप्ररूपणतो दूषणतो वा, यथा— पागयसुत्तनिबद्धं को वा जाणइ पणीय केणेयं ? |
किं वा चरणेणं तू दाणेण विणा उ किं हवइ ॥ [
] त्ति ।
सूत्रं व्याख्येयमर्थः तद्व्याख्यानं निर्युक्त्यादिस्तदुभयं द्वितयमिति, तत्प्रत्यनीकता– काया वया य ते च्चिय ते चेव पमाय अप्पमाया य ।
मोक्खाहिगारियाणं जोइसजोणीहि किं कज्जं ? ॥ [ बृहत्कल्प० १३०३] इत्यादि दूषणोद्भावनमिति ।
[सू० २०९] ततो पितियंगा पन्नत्ता, तंजहा - अट्ठी अट्ठिमिंजा केस-मंसुरोम - नहे १ ।
तओ माउयंगा पन्नत्ता, तंजहा- मंसे सोणिते मत्थुलुंगे २ |
[टी०] उक्ता कल्पस्थितिर्गर्भजमनुजानामेव तच्छरीरं च मातापितृहेतुकमिति तयोस्तदङ्गेषु हेतुत्वे विभागमाह - तओ पियंगेत्यादि सूत्रद्वयं कण्ठ्यम्, केवलं पितुः जनकस्याऽङ्गानि अवयवा: पित्रङ्गानि प्रायः शुक्रपरिणतिरूपाणीत्यर्थः, अस्थि प्रतीतम्, अस्थिमिंजा अस्थिमध्यरसः, केशाश्च शिरोजा: श्मश्रु च कूर्च : रोमाणि च कक्षादिजातानि नखाश्च प्रतीताः केश - श्मश्रु - रोम - नखमित्येकमेव प्रायः समानत्वादिति। मात्रङ्गानि आर्त्तवपरिणतिप्रायाणीत्यर्थः, मांसं प्रतीतम्, शोणितं रक्तम्, मस्तुलुङ्गं शेषं मेदः - फिप्फिसादि, कपालमध्यवर्त्ति भेज्जकमित्येके ।
[सू० २१०] तिहिं ठाणेहिं समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भवति, तंजहा- कया णं अहं अप्पं वा बहुं वा सुयं अहिज्जिस्सामि, कया णं अहमेकल्लविहारपडिमं उवसंपजित्ताणं विहरिस्सामि, कया णं अहमपच्छिममारणंतितसंलेहणाझूसणाझूसिते भत्तपाणपडियाइक्खिते पाओवगते कालं अणवकंखमाणे विहरिस्सामि, एवं स मणस स वयस स कायस पधारेमाणे निग्गंथे महानिज्जरे महापज्जवसाणे भवति ।
तिहिं ठाणेहिं समणोवासते महानिज्जरे महापज्जवसाणे भवति, तंजहाकया णं अहमप्पं वा बहुं वा परिग्गहं परिचइस्सामि १, कया णं अहं