________________
२२५
तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः ।। मुंडे भवेत्ता अगारातो अणगारितं पव्वइस्सामि २, कया णं अहं अपच्छिममारणंतियसंलेहणाझूसणाझूसिते भत्तपाणपडियातिक्खिते पाओवगते कालं अणवकंखमाणे विहरिस्सामि ३, एवं स मणस स वयस स कायस पधारेमाणे समणोवासते महानिज्जरे महापज्जवसाणे भवति ।
[टी०] पूर्वोक्तस्थविरकल्पस्थितिप्रतिपन्नस्य विशिष्टनिर्जराकारणान्यभिधातुमाहतिहीत्यादि सुगमम्, नवरं महती निर्जरा कर्मक्षपणा यस्य स तथा, महत् प्रशस्तमात्यन्तिकं वा पर्यवसानं पर्यन्तं समाधिमरणतोऽपुनर्मरणतो वा जीवितस्य यस्य स तथा, अत्यन्तं शुभाशयत्वादिति, एवं स मणस त्ति एवमुक्तलक्षणं त्रयम्, स इति साधु: मणस त्ति मनसा ह्रस्वत्वं प्राकृतत्वात्, एवं स वयस त्ति वचसा, स कायस त्ति कायेनेत्यर्थः, सकारागम: प्राकृतत्वादेव, त्रिभिरपि करणैरित्यर्थः, अथवा स्वमनसेत्यादि, प्रधारयन् पर्यालोचयन्, क्वचित्तु पागडेमाणे त्ति पाठस्तत्र प्रकटयन् व्यक्तीकुर्वन्नित्यर्थः। यथा श्रमणस्य तथा श्रमणोपासकस्यापि त्रीणि निर्जरादिकारणानीति दर्शयन्नाह-तिहीत्यादि कण्ठ्य म् ।
[सू० २११] तिविहे पोग्गलपडिघाते पन्नत्ते, तंजहा-परमाणुपोग्गले परमाणुपोग्गलं पप्प पडिहम्मेजा, लुक्खत्ताते वा पडिहम्मेजा, लोगते वा पडिहम्मेजा ।
[टी०] अनन्तरं कर्मनिर्जरोक्ता, सा च पुद्गलपरिणामविशेषरूपेति पुद्गलपरिणामविशेषमभिधातुमाह- तिविहेत्यादि, पुद्गलानाम् अण्वादीनां प्रतिघातो गतिस्खलनं पुद्गलप्रतिघातः, परमाणुश्चासौ पुद्गलश्च परमाणुपुद्गल: स तदन्तरं प्राप्य प्रतिहन्येत गतेः प्रतिघातमापद्येत, रूक्षतया वा तथाविधपरिणामान्तरात् गतित: प्रतिहन्येत, लोकान्ते वा, परतो धर्मास्तिकायाभावादिति ।
[सू० २१२] तिविहे चक्खू पन्नत्ते, तंजहा-एगचक्खू, बिचक्खू, तिचक्खू। छउमत्थे णं मणुस्से एगचक्खू, देवे बिचक्खू, तहारूवे समणे वा माहणे वा उत्पन्ननाणदंसणधरे से णं तिचक्खु त्ति वत्तव्वं सिता । [टी०] पुद्गलप्रतिघातं च चक्षुरेव जानातीति तन्निरूपणायाह- तिविहेत्यादि प्राय: