________________
तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः ।
२२१ तथा निव्विसमाण त्ति निर्विशमाना ये परिहारविशुद्धितपोऽनुचरन्ति, परिहारिका इत्यर्थः, तेषां कल्पे स्थितिर्यथा ग्रीष्म-शीत-वर्षाकालेषु क्रमेण तपो जघन्यं चतुर्थषष्ठा-ऽष्टमानि मध्यमं षष्ठादीनि उत्कृष्टमष्टमादीनीति, पारणे चायाममेव, पिण्डैषणासप्तके चाद्ययोरग्रह एवेति, पञ्चसु पुनरेकया भक्तमेकया च पानकमित्येवं द्वयोरभिग्रहः।
णिव्विट्ठमाण त्ति निविष्टा आसेवितविवक्षितचारित्राः, अनुपरिहारिका इत्यर्थः, तत्कल्पस्थितियथा प्रतिदिनमायाममात्रं तपो भिक्षा तथैवेति, उक्तं च- कप्पट्ठिया वि पइदिण करेंति एमेव चायामं [ ] ति। एते च निर्विशमानका निर्विष्टाश्च परिहारविशुद्धिका उच्यन्ते, तेषां च नवको गणो भवति, ते च एवंविधा:
सव्वे चरित्तवंतो उ, दंसणे परिनिट्ठिया ।
नवपुव्विया जहन्नेणं, उक्कोसा दसपुब्विया ॥ जिणकप्प त्ति जिना गच्छनिर्गतसाधुविशेषाः, तेषां कल्पस्थितिर्जिनकल्पस्थितिः, सा चैवम्-जिनकल्पं हि प्रतिपद्यते जघन्यतोऽपि नवमपूर्वस्य तृतीयवस्तुनि सति उत्कृष्टतस्तु दशसु भिन्नेषु, प्रथमे संहनने, दिव्याधुपसर्ग-रोगवेदनाश्चासौ सहते, एकाक्येव भवति, दशगुणोपेतस्थण्डिल एवोच्चारादि जीर्णवस्त्राणि च त्यजति, वसति: सर्वोपाधिविशुद्धाऽस्य, भिक्षाचर्या तृतीयपौरुष्याम्, पिण्डैषणोत्तरासां पञ्चानामेकतरैव, विहारो मासकल्पेन, तस्यामेव वीथ्यां षष्ठदिने भिक्षाटनमिति, एवंप्रकारा चेयं सुयसंघयणेत्यादिकाद् गाथासमूहात् कल्पोक्तादवगन्तव्येति, भणितं चगच्छम्मि य निम्माया धीरा जाहे य गहियपरमत्था । अग्गह जोग अभिग्गहे, उवेंति जिणकप्पियचरित्तं ॥ [बृहत्कल्प० ६४८३]
अग्रहे आद्ययोः, अभिग्रहे पञ्चानां पिण्डैषणानां योगे द्वयोर्मध्ये एकतरस्या गृहीतपरमार्थाः, धिइबलिया तवसूरा निती गच्छाउ ते पुरिससीहा । बलवीरियसंघयणा उवसग्गसहा अभीरु(रू) य ॥ [बृहत्कल्प० ६४८४] त्ति ।
स्थविराः आचार्यादयो गच्छप्रतिबद्धाः, तेषां कल्पस्थिति: स्थविरकल्पस्थिति:, सा च