________________
२२०
तेऽतिमहालयाश्चेति महातिमहालया:, द्विरुच्चारणं च महच्छब्दस्य मन्दरादीनां सर्वगुरुत्वख्यापनार्थम् । मंदरेसु त्ति मेरूणां मध्ये जम्बूद्वीपकस्य सातिरेकलक्षयोजनप्रमाणत्वाच्छेषाणां चतुर्णां सातिरेकपञ्चाशीतियोजनसहस्रप्रमाणत्वादिति । स्वयम्भूरमणो महान् सुमेरोरारभ्य तस्य शेषसर्वद्वीप-समुद्रेभ्य: समधिकप्रमाणत्वात्, तेषां तस्य च क्रमेण किञ्चिन्न्यूनाधिकरज्जुपादप्रमाणत्वादिति । ब्रह्मलोकस्तु महान्, तत्प्रदेशे पञ्चरज्जुप्रमाणत्वात् लोकविस्तरस्य, तत्प्रमाणतया च विवक्षितत्वात् ब्रह्मलोकस्येति ।
[सू० २०६] तिविधा कप्पट्टिती पन्नत्ता, तंजहा-सामाइयकप्पट्टिती, छेदोवट्ठावणियकप्पट्टिती, निव्विसमाणकप्पट्टिती ।।
अहवा तिविहा कप्पट्टिती पन्नत्ता, तंजहा-णिविट्ठकप्पट्टिती, जिणकप्पट्टिती, थेरकप्पट्ठिती २॥
[टी०] अनन्तरं ब्रह्मलोककल्प उक्त इति कल्पशब्दसाधर्म्यात् कल्पस्थिति त्रिधाऽऽह- तिविहेत्यादि सूत्रद्वयं कण्ठ्यम्, केवलं समानि ज्ञानादीनि, तेषामायो लाभ: समाय:, स एव सामायिकं संयमविशेषः, तस्य तदेव वा कल्प: करणमाचारः, यथोक्तम्सामर्थ्य वर्णनायां च, करणे छेदने तथा ।
औपम्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः ॥ [ ] इति सामायिककल्पः, स च प्रथम-चरमतीर्थयो: साधूनामल्पकाल:, छेदोपस्थापनीयसद्भावात्, मध्यतीर्थेषु महाविदेहेषु च यावत्कथिकः, छेदोपस्थापनीयाभावात्, तदेवं तस्य तत्र वा स्थिति: मर्यादा सामायिककल्पस्थितिः । ___ तथा पूर्वपर्यायच्छेदेनोपस्थापनीयम् आरोपणीयं छेदोपस्थापनीयम्, व्यक्तितो महाव्रतारोपणमित्यर्थः, तच्च प्रथम-पश्चिमतीर्थयोरेवेति, शेषा व्युत्पत्तिस्तथैव, तस्थितिश्चोक्तलक्षणेष्वेव दशसु स्थानकेष्ववश्यंपालनलक्षणेति, तथाहि दसठाणठिओ कप्पो पुरिमस्स य पच्छिमस्स य जिणस्स । एसो धुयरयकप्पो दसठाणपइट्ठियो होइ ॥ त्ति । आचेल १ कुद्देसिय २ सिजायर ३ रायपिंड ४ किइकम्मे ५ । वय ६ जेट्ट ७ पडिक्कमणे ८ मासं ९ पजोसवणकप्पे १० ॥ [बृहत्कल्प० ६३६३-४] त्ति।