________________
२१८ विणयाहीया विजा देइ फलं इह परे य लोयम्मि । न फलंतऽविणयगहिया सस्साणि व तोयहीणाई ॥ [बृहत्कल्प० ५२०३] ति ।
तथा विकृतिप्रतिबद्धो घृतादिरसविशेषगृद्धः, अनुपधानकारीति भावः, इहापि दोष एव, यदाह
अतवो न होइ जोगो न य फलए इच्छियं फलं विज्जा। अवि फलति विउलमगुणं साहणहीणा जहा विजा ॥ [बृहत्कल्प० ५२०६] त्ति । तथा अव्यवशमितम् अनुपशान्तं प्राभृतमिव प्राभृतं नरकपालकौशलिकं परमक्रोधो यस्य सोऽव्यवशमितप्राभृतः, उक्तं च
अप्पे वि पारमाणिं अवराहे वयइ खामियं तं च । बहुसो उदीरयंतो अविओसियपाहुडो स खलु ॥ [बृहत्कल्प० ५२०७] त्ति ।
पारमाणिं परमक्रोधसमुद्घातं व्रजतीति भाव:, एतस्य वाचने इहलोकतस्त्यागोऽस्य प्रेरणायां कलहनात् प्रान्तदेवताछलनाच्च, परलोकतोऽपि त्यागः, तत्र श्रुतस्य दत्तस्य निष्फलत्वात्, ऊषरक्षिप्तबीजवदिति, आह च
दुविहो उ परिच्चाओ इह चोयण कलह १ देवयाछलणं २ । परलोगम्मि अ अफलं खित्तं पिव ऊसरे बीयं ॥ [बृहत्कल्प० ५२०८] ति । एतद्विपर्ययसूत्रं सुगमम् ।
श्रुतदानस्यायोग्या उक्ताः, इदानीं सम्यक्त्वस्याप्ययोग्यानाह- तओ इत्यादि सुगमम्, किन्तु दुःखेन कृच्छ्रेण संज्ञाप्यन्ते बोध्यन्त इति दुःसंज्ञाप्या:, तत्र दुष्टो द्विष्टः तत्त्वं प्रज्ञापकं वा प्रति, स चाऽप्रज्ञापनीयः, द्वेषेणोपदेशाप्रतिपत्तेः, एवं मूढो गुण-दोषानभिज्ञः, व्युग्राहित: कुप्रज्ञापकदृढीकृतविपर्यास:, सोऽप्युपदेशं न प्रतिपद्यते, उक्तं च
पुव्वं कुग्गाहिया केई, बाला पंडियमाणिणो। नेच्छंति कारणं सोउं, दीवजाए जहा नरे ॥ [बृहत्कल्प० ५२२४] त्ति ४।
एतेषां स्वरूपं कल्पात् कथाकोशाच्चावसेयमिति । एतद्विपर्यस्तान् सुसंज्ञाप्यतयाऽऽह- तओ इत्यादि स्फुटमिति ।
[सू० २०५] ततो मंडलिया पव्वता पन्नत्ता, तंजहा-माणुसुत्तरे, कुंडलवरे, रुयगवरे ।