________________
तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः ।
२१७
अविओसवितपाहुडे ।
ततो कप्पंति वातित्तते, तंजहा-विणीते, अविगतीपडिबद्धे, विओसवियपाहुडे।
तओ दुसन्नप्पा पन्नत्ता, तंजहा-दुढे, मूढे, वुग्गाहिते । तओ सुसन्नप्पा पन्नत्ता, तंजहा-अदुढे, अमूढे, अवुग्गाहिते । [टी०] पूर्वोक्तप्रायश्चित्तं प्रव्राजनादियुक्तस्य भवति, तानि चायोग्यनिरासेन योग्यानां विधेयानीति तदयोग्यान्निरूपयन् सूत्रषट्कमाह- तओ णो कप्पंति पव्वावेत्तए इत्यादि कण्ठ्यम्, किन्तु पण्डकं नपुंसकम्, तच्च लक्षणादिना विज्ञाय परिहर्त्तव्यम्, लक्षणानि चास्यमहिलासहावो १ सर २ वन्नभेओ ३, मेंढं महंतं ४ मउया य वाणी ५।। ससद्दगं मुत्तमफेणगं च ६, एयाणि छप्पंडगलक्खणाणि ॥ [बृहत्कल्प० ५१४४] त्ति । तथा वातोऽस्यास्तीति वातिकः, यदा स्वनिमित्ततोऽन्यथा वा मेहनं कषायितं भवति तदा न शक्नोति यो वेदं धारयितुं यावन्न प्रतिसेवा कृता स वातिक इति, अयं च निरुद्धवेदो नपुंसकतया परिणमति, क्वचित्तु वाहिय त्ति पाठः, तत्र व्याधितो रोगीत्यर्थः। तथा क्लीब: असमर्थः, स च चतुर्द्धा वृत्तितो ज्ञेयः ।। इह त्रयोऽप्रव्राज्या उक्ता: त्रिस्थानकानुरोधाद्, अन्यथा अन्येऽपि ते सन्ति।
बाले वुड्ढे इत्यादि, यथैते प्रव्राजयितुं न कल्पन्ते एवमेत एव कथञ्चिच्छलितेन प्रव्राजिता अपि सन्तो मुण्डयितुं शिरोलोचेन न कल्पन्ते ।
एवं शिक्षयितुं प्रत्युपेक्षणादिसामाचारी ग्राहयितुम्, तथा उपस्थापयितुं महाव्रतेषु व्यवस्थापयितुम्, तथा सम्भोक्तुम् उपध्यादिना, एवमनाभोगात् संभुक्ताश्च संवासयितुम् आत्मसमीपे आसयितुं न कल्पन्त इति प्रक्रम इति ।
कथञ्चित् संवासिता अपि वाचनाया अयोग्या: न वाचनीया इति तानाह- तओ त्ति सुगमम्, नवरं अवाचनीया: सूत्रं न पाठनीया:, अत एवार्थमप्यश्रावणीया:, सूत्रादर्थस्य गुरुत्वात्, तत्राऽविनीत: सूत्रार्थदातुर्वन्दनादिविनयरहित:, तद्वाचने हि दोष:, उक्तम् च