________________
२१६
पावाणं पावयरो दिट्ठिप्फासे वि सो न कप्पति हु । जो जिणपुंगवमुदं नमिऊण तमेव धरिसेइ ॥ त्ति । संसारमणवयगं जाइ-जरा-मरणवेयणापउरं । पावमलपडलछन्ना भमंति मुद्दाधरिसणेणं ॥ [बृहत्कल्प० ५००८-१०] ति । परपक्षकषायदुष्टस्तु राजवधको द्वितीयो राजाग्रमहिष्यधिगन्तेति, उक्तं चजो य सलिंगे दुट्ठो कसाय-विसएहिं रायवहगो य । रायग्गमहिसिपडिसेवओ य बहुसो पयासो य ॥ [ ]
प्रमत्तः पञ्चमनिद्राप्रमाद]वान्, मांसाशिप्रव्रजितसाधुवदिति, अयं च सद्गुणोऽपि त्याज्य इति । ___ तथा, अन्योन्यं परस्परं मुखपायुप्रयोगतो मैथुनं कुर्वत्, पुरुषयुगमिति शेषः, उच्यते च
आसय-पोसयसेवी के वि मणूसा दुवेयगा होति । तेसिं लिंगविवेगो [बृहत्कल्प० ५०२६] त्ति ।
आसेवितातिचारविशेष: सन्ननाचरिततपोविशेषस्तद्दोषोपरतोऽपि महाव्रतेषु नावस्थाप्यते नाधिक्रियते इत्यनवस्थाप्य:, तदतिचारजातं तच्छुद्धिरपि वाऽनवस्थाप्यमुच्यत इति नवमं प्रायश्चित्तमिति । तत्र साधर्मिका: साधवस्तेषां सत्कस्योत्कृष्टोपधिशिष्यादेर्वा बहुशो वा प्रद्विष्टचित्तो वा तेणं ति स्तेयं चौर्यं कुर्वन् १, तथा अन्यधार्मिका: शाक्यादयो गृहस्था वा, तेषां सत्कस्योपध्यादेः स्तेयं कुर्वनिति २, तथा हस्तेनाऽऽताडनं हस्तातालस्तं दलमाणे ददत्, यष्टि-मुष्टि-लकुटादिभिर्मरणादिनिरपेक्ष आत्मन: परस्य वा प्रहरन्निति भाव:, उक्तं चउक्कोसं बहुसो वा पदुट्ठचित्तो व तेणियं कुणइ। पहरइ जो य सपक्खे निरविक्खो घोरपरिणामो ॥ [ ] त्ति। [सू० २०४] ततो णो कप्पंति पव्वावेत्तए, तंजहा-पंडए, वातिए, कीवे १॥ एवं मुंडावेत्तए २, सिक्खावेत्तए ३, उवट्ठावेत्तए ४, संभुंजेत्तए ५, संवासित्तते ६। ततो अवायणिजा पन्नत्ता, तंजहा-अविणीते, विगतीपडिबद्धे,