________________
तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः ।
२१५ तपः, गुर्व्वित्यर्थः, तद्योगात् साधवोऽपि वा तथोच्यन्ते । हस्तकर्म आगमप्रसिद्धम्, तत् कुर्वन्, सप्तमी चेयं षष्ठ्यर्था, तेन कुर्वत इति व्याख्येयम्, एतेषां च हस्तकर्मादीनां यत्र विशेष योऽनुद्घातिमविशेषो दीयते स कल्पादितोऽवसेयः। पारंचिय त्ति पारं तीरं तपसा अपराधस्याऽञ्चति गच्छति ततो दीक्ष्यते य: स पाराञ्ची, स एव पाराञ्चिकः, तस्य यदनुष्ठानं तच्च पाराञ्चिकमिति दशमं प्रायश्चित्तम्, लिङ्ग-क्षेत्र-कालतपोभिर्बहिःकरणमिति भावः, इह च सूत्रे कल्पभाष्य इदमभिधीयते
आसायण पडिसेवी दविहो पारंचिओ समासेणं । एक्केकंमि य भयणा सचरित्ते चेव अचरित्ते ॥ सव्वचरित्तं भस्सइ केण वि पडिसेविएण उ पएणं । कत्थइ चिट्ठइ देसो परिणामवराहमासज ॥ तुल्लम्मि वि अवराहे परिणामवसेण होइ नाणत्तं । कत्थइ परिणामंम्मि वि तुल्ले अवराहनाणत्तं ॥ [बृहत्कल्प० ४९७२-७३-७४] तत्र आशातकपाराञ्चिक:तित्थयरपवयणसुए आयरिए गणहरे महिड्डीए । एते आसायंते पच्छित्ते मग्गणा होइ ॥ [बृहत्कल्प० ४९७५, ५०६०] त्ति । तत्र
सव्वे आसायंते पावति पारंचियं ठाणं [बृहत्कल्प० ४९८३] ति । इह च सूत्रे प्रतिषेवकपाराञ्चिक एव त्रिविध उक्तः, तदुक्तम्
पडिसेवणपारंची तिविहो सो होइ आणुपुव्वीए । दुढे य १ पमत्ते या २ नेयव्वे अन्नमन्ने य ३ ॥ [बृहत्कल्प० ४९८५] तत्र दुष्टो दोषवान् कषायतो विषयतश्च, पुनरेकैको द्विधा, सपक्ष-विपक्षभेदात्, उक्तं च
दुविहो य होइ दुट्ठो कसायदुट्ठो य विसयदुट्टो य । दुविहो कसायदुट्ठो सपक्ख-परपक्ख चउभंगो ॥ [बृहत्कल्प० ४९८६] तत्र स्वपक्षे कषायदुष्टो यथा सर्षपनालिकाभिधानशाकभर्जिकाग्रहणकुपितो मृताचार्यदन्तभञ्जकः साधुः, विषयदुष्टस्तु साध्वीकामुकः, तत्र चोक्तम्लिंगेण लिंगिणीए संपत्तिं जो णिगच्छई पावो । सव्वजिणाणऽजाओ संघो वाऽऽसाइतो तेणं ॥