________________
२१४
[सू० २०२] सक्कस्स णं देविंदस्स देवरण्णो बाहिरपरिसाते देवाणं तिन्नि पलिओवमाइं ठिती पन्नत्ता १। सक्कस्स णं देविंदस्स देवरणो अब्भंतरपरिसाते देवीणं तिन्नि पल्लिओवमाइं ठिती पन्नत्ता २। ईसाणस्स णं देविंदस्स देवरण्णो बाहिरपरिसाते देवीणं तिन्नि पलिओवमाई ठिती पण्णत्ता ३।
[टी०] देवाधिकारायातं सक्केत्यादि सूत्रत्रयं सुगममिति । [सू० २०३] तिविहे पायच्छित्ते पन्नत्ते, तंजहा-णाणपायच्छित्ते, दंसणपायच्छित्ते, चरित्तपायच्छित्ते ।
ततो अणुग्घातिमा पन्नत्ता, तंजहा-हत्थकम्मं करेमाणे, मेहुणं सेवमाणे, रातीभोयणं भुंजमाणे २॥
तओ पारंचिता पन्नत्ता, तंजहा-दुढे पारंचिते, पमत्ते पारंचिते, अन्नमन्नं करेमाणे पारंचिते ३॥
ततो अणवठ्ठप्पा पन्नत्ता, तंजहा-साहम्मियाणं तेणं करेमाणे, अन्नधम्मियाणं तेणं करेमाणे, हत्थातालं दलयमाणे ४।
[टी०] देवीनामनन्तरं स्थितिरुक्ता, देवीत्वं च पूर्वभवे सप्रायश्चित्तानुष्ठानाद्भवतीति प्रायश्चित्तस्य तद्वतां च प्ररूपणायाह-तिविहेत्यादि सूत्रचतुष्टयं सुगमम्, केवलं नाणेत्यादि, ज्ञानाद्यतिचारशुद्ध्यर्थं यदालोचनादि ज्ञानादीनां वा योऽतिचारस्तत् ज्ञानप्रायश्चित्तादि, तत्राकाला-ऽविनयाध्ययनादयोऽष्टावतिचारा ज्ञानस्य, शकितादयोऽष्टौ दर्शनस्य, मूलगुणोत्तरगुणविराधनारूपा विचित्रा: चारित्रस्येति । अणुग्घाइम त्ति उद्घातो भागपातः, तेन निवृत्तमुद्घातिमम्, लघ्वित्यर्थः, यत उक्तम्
अद्धेण छिन्नसेसं पुव्वद्धणं तु संजुयं काउं । देजाहि लहुयदाणं गुरुदाणं तत्तियं चेव ॥ [ ] त्ति ।
भावना- मासोऽर्द्धन छिन्नो जातानि पञ्चदश दिनानि, ततो मासापेक्षया पूर्वं तपः पञ्चविंशतितमं तदर्धी सार्द्धद्वादशकं तेन संयुतं मासार्द्धम्, जातानि सप्तविंशतिर्दिनानि सार्द्धानीत्येवं कृत्वा यद् दीयते तल्लघुमासदानम्, एवमन्यान्यपि, एतन्निषेधादनुद्घातिमं