________________
२१३
तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः । भंते ! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य ? गोयमा ! तेसि णं देवाणं भवपच्चइए वेराणुबंधे [भगवती० ३।२।१३] त्ति, ततश्च सङ्ग्राम: स्यात्, तत्र वर्तमाने पृथिवी चलेत्, तत्र तेषां महाव्यायामत उत्पातनिपातसम्भवादिति । इच्चेतेहीत्यादि निगमनमिति ।
[सू० २०१] तिविधा देवकिब्बिसिया पन्नत्ता, तंजहा-तिपलिओवमट्टितीता, तिसागरोवमट्टितीता, तेरससागरोवमट्टितीया ।
कहि णं भंते ! तिपलितोवमट्टितीता देवकिब्बिसिया परिवसंति ?, उप्पिं जोतिसिताणं हव्विं सोहम्मीसाणेसु कप्पेसु एत्थ णं तिपलिओवमट्टितीता देवकिब्बिसिता परिवसंति १॥
कहि णं भंते ! तिसागरोवमट्टितीता देवकिब्बिसिता परिवसंति ?, उप्पिं सोहम्मीसाणाणं कप्पाणं हव्विं सणंकुमार-माहिंदेसु कप्पेसु एत्थ णं तिसागरोवमट्टितीया देवकिब्बिसिया परिवसंति २।
कहि णं भंते ! तेरससागरोवमद्वितीया देवकिब्बिसिता परिवसंति ?, उप्पिं बंभलोगस्स कप्पस्स हव्विं लंतगे कप्पे एत्थ णं तेरससागरोवमट्टितीया देवकिब्बिसिता परिवसंति ३।। ___ [टी०] देवासुरा: सङ्ग्रामकारितयाऽनन्तरमुक्ता:, ते च दशविधा: इन्द्र-सामानिकत्रायस्त्रिंश-पार्षद्या-ऽऽत्मरक्ष-लोकपाला-ऽनीक-प्रकीर्णका-ऽऽभियोग्य-किल्बिषिकाश्चैकशः [तत्त्वार्थ० ४।४] इति वचनात्, इति तन्मध्यवर्तिनः त्रिस्थानकावतारित्वात् किल्बिषिकानभिधातुमाह- तिविहेत्यादि स्फुटम् । केवलं किब्बिसिय त्तिनाणस्स केवलीणं धम्मायरियस्स संघसाहूणं । माई अवन्नवाई किब्बिसियं भावणं कुणइ ॥ [बृहत्कल्प० १३०२] त्ति ।
एवंविधभावनोपात्तं किल्बिषं पापम् उदये विद्यते येषां ते किल्बिषिकाः, देवानां मध्ये किल्बिषिका: पापाः, अथवा देवाश्च ते किल्बिषिकाश्चेति देवकिल्बिषिका: मनुष्येषु चण्डाला इवाऽस्पृश्या:, कहि णं ति उप्पिं उपरि, हेर्टि अधस्तात् सोहम्मीसाणेसु त्ति षष्ठ्यर्थे सप्तमी ।।