________________
२०८
___तिविधा पन्नवणा पन्नत्ता, तंजहा-णाणपन्नवणा, दंसणपन्नवणा, चरित्तपन्नवणा १॥ तिविधे सम्मे पन्नत्ते, तंजहा-नाणसम्मे, सणसम्मे, चरित्तसम्मे २। तिविधे उवघाते पन्नत्ते, तंजहा-उग्गमोवघाते, उप्पायणोवघाते, एसणोवघाते ३। एवं विसोधी ४॥
तिविहा आराहणा पन्नत्ता, तंजहा-णाणाराहणा, दंसणाराहणा, चरित्ताराहणा ५। णाणाराहणा तिविधा पन्नत्ता, तंजहा-उक्कस्सा, मज्झिमा, जहन्ना ६। एवं दंसणाराहणा वि ७, चरित्ताराहणा वि ८।
तिविधे संकिलेसे पन्नत्ते, तंजहा-नाणसंकिलेसे, दंसणसंकिलेसे, चरित्तसंकिलेसे ९। एवं असंकिलेसे वि १०, एवमतिक्कमे वि ११, वतिक्कमे वि १२, अइयारे वि १३, अणायारे वि १४ ।
तिण्हमतिकमाणं आलोएजा पडिक्कमेजा निंदेजा गरहेजा जाव पडिवजेजा, तंजहा-णाणातिक्कमस्स, दंसणातिक्कमस्स, चरित्तातिक्कमस्स १५। एवं वइक्कमाणं १६, अतिचाराणं १७, अणायाराणं १८॥
तिविधे पायच्छित्ते पन्नत्ते, तंजहा-आलोयणारिहे, पडिक्कमणारिहे, तदुभयारिहे १९॥
[टी०] एते च समयादयः पुद्गलपरिवर्तान्ताः स्वरूपेण बहवोऽपि तत्सामान्यलक्षणमेकम् अर्थमाश्रित्यैकवचनान्ततयोक्ता:, भवन्ति चैकादिष्वर्थेष्वेकवचनादीनीत्येकवचनादिप्ररूपयन्नाह- तिविहे इत्यादि, एकोऽर्थ उच्यतेऽनेन उक्तिर्वेति वचनम्, एकस्यार्थस्य वचनमेकवचनम्, एवमितरे अपि, अत्र क्रमेणोदाहरणानि देवो देवौ देवाः । वचनाधिकारे अहवेत्यादि सूत्रद्वयं सुगमम्, उदाहरणानि तु स्त्रीवचनादीनां नदी, नदः, कुण्डम्, तीतादीनां कृतवान् करोति करिष्यति।
वचनं हि जीवपर्यायस्तदधिकारात् तत्पर्यायान्तराणि त्रिस्थानकेऽवतारयन्नाह-तिविहे इत्यादिसूत्राणामेकोनविंशतिः, स्पष्टा चेयम्, परं प्रज्ञापना भेदाद्यभिधानम्, तत्र ज्ञानप्रज्ञापना आभिनिबोधिकादि पञ्चधा ज्ञानम्, एवं दर्शनं क्षायिकादि त्रिधा, चारित्रं