________________
२०७
तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः । तस्मिन् वा, तथा वृक्षस्य करीरादेर्निर्गलस्य मूलम् अधोभागस्तदेव गृहं वृक्षमूलगृहं तस्मिन् वेति । प्रत्युपेक्षया चोपाश्रये शुद्धे गृहस्थं प्रति तदनुज्ञापनं भवतीत्यनुज्ञापनासूत्रम्एवमिति एतदेव पडिमापडिवन्नेत्याधुच्चारणीयम्, नवरं प्रत्युपेक्षणास्थाने अनुज्ञापनं वाच्यमिति । अनुज्ञाते च गृहिणा तस्योपादानमित्युपादानसूत्रम्, तदप्येवमेवेति,
ओवाइणित्तए त्ति उपादातुं ग्रहीतुम्, प्रवेष्टुमित्यर्थः, एवं संस्तारकसूत्रत्रयमपि, नवरं पृथिवीशिला उवट्टगो त्ति यः प्रसिद्धः, काष्ठं चासौ शिलेवाऽऽयति-विस्तराभ्यां शिला सा चेति काष्ठशिला, यथासंस्तृतमेवेति यत्तृणादि यथोपभोगार्हं भवति तथैव यल्लभ्यत इति । [सू० १९७] तिविधे काले पण्णत्ते, तंजहा-तीते, पडुप्पन्ने, अणागते । तिविधे समए पन्नत्ते, तंजहा-तीते, पडुप्पन्ने, अणागते । एवं आवलिया आणापाणू थोवे लवे मुहुत्ते अहोरत्ते जाव वाससतसहस्से पुव्वंगे पुव्वे जाव ओसप्पिणी । तिविधे पोग्गलपरियट्टे पन्नत्ते, तंजहा-तीते, पडुप्पन्ने, अणागते ।। [टी०] प्रतिमाश्च नियतकाला भवन्तीति कालं त्रिधाऽऽह- तिविहे त्ति अति अतिशयेनेतो गतोऽतीतः, पिधानवदकारलोपे तीतो, वर्तमानत्वमतिक्रान्त इत्यर्थः, साम्प्रतमुत्पन्न: प्रत्युत्पन्नो वर्तमान इत्यर्थः, न आगतोऽनागतो वर्तमानत्वमप्राप्तः, भविष्यन्नित्यर्थः । __ कालसामान्यं त्रिधा विभज्य तद्विशेषांस्त्रिधा विभजयन्नाह– तिविहे समये इत्यादि कालसूत्राणि, समयादयो द्विस्थानकाद्योद्देशकवत् व्याख्येया:, नवरं पोग्गलपरियट्टे इत्यादि वृत्तौ । [सू० १९८] तिविहे वयणे पन्नत्ते, तंजहा-एगवयणे, दुवयणे, बहुवयणे। अहवा तिविधे वयणे पन्नत्ते, तंजहा-इत्थिवयणे, पुमवयणे, नपुंसगवयणे।
अहवा तिविधे वयणे पन्नत्ते, तंजहा-तीतवयणे, पडुप्पन्नवयणे, अणागयवयणे ।