________________
२०६
अन्यैश्च केवलिभिः, हे श्रमणायुष्मन्निति गौतमादिकं शिष्यं भगवानामन्त्रयन्निदमुवाचेति।
॥ त्रिस्थानकस्य तृतीयोद्देशको समाप्त: ।।
[अथ चतुर्थ उद्देशकः] - [सू० १९६] पडिमापडिवनस्स णं अणगारस्स कप्पंति तओ उवस्सया पडिलेहित्तते, तंजहा-अहे आगमणगिहंसि वा, अहे वियडगिहंसि वा, अहे रुक्खमूलगिहंसि वा । एवमणुण्णवित्तते, उवातिणित्तते ।
पडिमापडिवनस्स णं अणगारस्स कप्पंति तओ संथारगा पडिलेहित्तते, तंजहा-पुढविसिला, कट्ठसिला, अधासंथडमेव । एवं अणुण्णवित्तते, उवातिणित्तते ।
[टी०] व्याख्यातः तृतीय उद्देशकः, अधुना चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्ध:- पूर्वस्मिन् उद्देशके पुद्गल-जीवधर्मास्त्रित्वेनोक्ता इहापि त एव तथैवोच्यन्त इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रषट्कं पडिमेत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः- पूर्वसूत्रे श्रमणमाहनस्य पर्युपासनाया: फलपरम्परोक्ता इह तु तद्विशेषस्य कल्पविधिरुच्यत इत्येवंसम्बन्धितस्यास्य व्याख्या- प्रतिमां मासिक्यादिकां भिक्षुप्रतिज्ञाविशेषलक्षणां प्रतिपन्न: अभ्युपगतवान् य: स तथा तस्याऽनगारस्य कल्पन्ते युज्यन्ते त्रय उपाश्रीयन्ते भज्यन्ते शीतादित्राणार्थं ये ते उपाश्रयाः वसतय: प्रत्युपेक्षितुम् अवस्थानार्थं निरीक्षितुमिति, अहेत्ति अथार्थः, अथशब्दश्चेह पदत्रयेऽपि त्रयाणामप्याश्रयाणां प्रतिमाप्रतिपन्नस्य साधो: कल्पनीयतया तुल्यताप्रतिपादनार्थः, वा विकल्पार्थः, पथिकादीनामागमनेनोपेतं तदर्थं वा गृहमागमनगृहं सभा-प्रपादि, यदाह
आगंतु गारत्थजणो जहिं तु, संठाइ जं वाऽऽगमणम्मि तेसिं। तं आगमोकं तु विदू वयंति, सभा-पवा-देउलमाइयं च ॥ [बृहत्कल्प० ३४८६] त्ति ।
तस्मिन् उपाश्रय: तदेकदेशभूत: प्रत्युपेक्षितुं कल्पत इति प्रक्रम इति । तथा वियर्ड ति विवृतम् अनावृतम्, तच्च द्वेधा अध ऊर्ध्वं च, तत्र पार्श्वत एकादिदिक्षु अनावृतमधोविवृतम्, अनाच्छादितममालगृहं चोर्ध्वविवृतम्, तदेव गृहं विवृतगृहम्,