________________
तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः ।
२०५
तथा- शल्यं कामा विषं कामाः कामा आशीविषोपमाः ।
कामानभिलषन्तोऽपि निष्कामा यान्ति दुर्गतिम् ॥ [ ] इत्यादीनि । [सू० १९५] तहारूवं णं भंते ! समणं वा माहणं वा पज्जुवासमाणस्स किंफला पज्जुवासणता ? सवणफला । से णं भंते ! सवणे किं फले ? णाणफले । से णं भंते ! णाणे किंफले ? विण्णाणफले । एवमेतेणं अभिलावेणं इमा गाहा अणुगंतव्वा
सवणे णाणे य विन्नाणे पच्चक्खाणे य संजमे । अणण्हते तवे चेव वोदाणे अकिरि णिव्वाणे ॥१३॥
जाव सा णं भंते ! अकिरिया किंफला ? निव्वाणफला । से णं भंते! णिव्वाणे किंफले ? सिद्धिगइगमणपज्जवसाणफले पन्नत्ते समणाउसो !
॥ तइयस्स तृतीयः॥ [टी०] अनन्तरमर्थादिविनिश्चय उक्त इति तत्कारणफलपरम्परां त्रिस्थानकानवतारिणीमपि प्रसङ्गतो भगवत्प्रश्नद्वारेण निरूपयन्नाह-तहारूवेत्यादि पाठसिद्धम्, केवलं पर्युपासना सेवा, श्रवणं फलं यस्या: सा तथा, साधवो हि धर्मकथादिकं स्वाध्यायं कुर्वन्तीति श्रवणं तत्सेवायां भवतीति, ज्ञानं श्रुतज्ञानम्, विज्ञानम् अर्थादीनां हेयोपादेयत्वविनिश्चय:, एवमिति पूर्वोक्तेनाऽभिलापेन से णं भंते ! विन्नाणे किंफले?, पच्चक्खाणफले' इत्यादिना, इयं गाथा अनुगन्तव्या अनुसरणीया, एतद्गाथोक्तानि पदान्यध्येतव्यानीत्यर्थः, सवणेत्यादि, भावितार्था, नवरं प्रत्याख्यानं निवृत्तिद्वारेण प्रतिज्ञाकरणम्, संयम: प्राणातिपाताद्यकरणम् । __ अनाश्रवो नवकर्मानुपादानम् । अनाश्रवणाल्लघुकर्मत्वेन तपोऽनशनादिभेदं भवति। व्यवदानं पूर्वकृतकर्मवनलवनं दाप् लवने [पा० धा० १०५९] इति वचनात्, कर्मकचवरशोधनं वा दैप् शोधने [पा० धा० ९२४] इति वचनादिति । अक्रिया योगनिरोधः, निर्वाणं कर्मकृतविकारविरहितत्वम् । सिद्ध्यन्ति कृतार्था भवन्ति यस्यां सा सिद्धिः लोकाग्रम्, सैव गम्यमानत्वाद् गतिः, तस्यां गमनम्, तदेव पर्यवसानफलं सर्वान्तिमप्रयोजनं यस्य निर्वाणस्य तत् सिद्धिगतिगमनपर्यवसानफलं प्रज्ञप्तं मया