________________
२०४
आत्म-पर-तदुभयैस्त्रय आलापका उक्ता:, एवमेकैकस्मिन् वैयावृत्यादिसूत्रे ते त्रयस्त्रयो वाच्या इति ।
अथ श्रुतधर्मभेदा उच्यन्ते- तिविहा कहेत्ति अर्थस्य लक्ष्म्या: कथा उपायप्रतिपादनपरो वाक्यप्रबन्धोऽर्थकथा, उक्तं च
सामादि-धातुवादादि-कृष्यादिप्रतिपादिका।
अर्थोपादानपरमा कथाऽर्थस्य प्रकीर्तिता ॥ [ ] तथा– अर्थाख्यः पुरुषार्थोऽयं प्रधान: प्रतिभासते ।
तृणादपि लघु लोके धिगर्थरहितं नरम् ॥ [ ] इति । इयं च कामन्दकादिशास्त्ररूपा । एवं धर्मोपायकथा धर्मकथा, उक्तं च
दया-दान-क्षमाद्येषु धर्माङ्गेषु प्रतिष्ठिता ।
धर्मोपादेयतागर्भा बुधैर्धर्मकथोच्यते ॥ [ ] तथा- धर्माख्यः पुरुषार्थोऽयं, प्रधान इति गीयते ।
पापसक्तं पशोस्तुल्यं, धिग्धर्मरहितं नरम् ॥ [ ] इति । इयं चोत्तराध्ययनादिरूपाऽवसेयेति । एवं कामकथाऽपि, यदाह
कामोपादानगर्भा च, वयोदाक्षिण्यसूचिका ।
अनुरागेङ्गिताद्युत्था, कथा कामस्य वर्णिता ॥ [ ] तथा- स्मितं न लक्षेण वचो न कोटिभिर्न कोटिलक्षैः सविलासमीक्षितम् ।
अवाप्यतेऽन्यैर्हदयोपगूहनं न कोटिकोट्याऽपि तदस्ति कामिनाम् ॥ [ ] इति । इयमपि वात्स्यायनादिरूपाऽवसेयेति, प्रकीर्णा वा तत्तदर्था वचनपद्धति: कथाचरित्रवर्णनरूपा वा । अत्थविणिच्छए त्ति अर्थादिविनिश्चया: अर्थादिस्वरूपपरिज्ञानानि, तानि च
अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
नाशे दुःखं व्यये दुःखम्, धिगर्थं दुःखकारणम् ॥ [ ] तथा- धनदो धनार्थिनां धर्मः, कामदः सर्वकामिनाम् ।
धर्म एवापवर्गस्य पारम्पर्येण साधकः ॥ [धर्मबिन्दु० ११२]