________________
२०३
तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः । परलक्षणस्य तदुभयार्थं वोपक्रमस्तदुभयोपक्रम इति २ । एवमिति उपक्रमसूत्रवत् आत्मपरोभयभेदेन वैयावृत्यादयो वाच्या:, व्यावृतस्य भावः कर्म वा वैयावृत्यं भक्तादिभिरुपष्टम्भः, तत्रात्मवैयावृत्यं गच्छनिर्गतस्यैव, परवैयावृत्यं ग्लानादिप्रतिजागरकस्य, तदुभयवैयावृत्यं गच्छवासिन इति ३ । अनुग्रहो ज्ञानाद्युपकारः, तत्र आत्माऽनुग्रहोऽध्ययनादिप्रवृत्तस्य, परानुग्रहो वाचनादिप्रवृत्तस्य, तदुभयानुग्रहः शास्त्रव्याख्यानशिष्यसङ्ग्रहादिप्रवृत्तस्येति ४ । अनुशिष्टिः अनुशासनम्, तत्र आत्मनो
यथा
बायालीसेसणसंकडम्मि गहणम्मि जीव ! न हु छलिओ । इण्डिं जह न छलिजसि भुंजतो रागदोसेहिं ॥ [ओघनि० ५४५, पञ्चव० ३५४] ति, तथा विधेयमिति शेष इति । परानुशिष्टिर्यथाता तंसि भाववेजो भवदुक्खनिपीडिया तुहं एते । हंदि सरणं पवन्ना मोएयव्वा पयत्तेणं ॥ [पञ्चव० १३५१] ति । तदुभयानुशिष्टिर्यथा - कहकहवि माणुसत्ताइ पावियं चरणपवररयणं च ।। ता भो एत्थ पमाओ कइया वि न जुज्जए अम्हं ॥ [ ] ति । उपालम्भ: इयमेवानौचित्यप्रवृत्तिप्रतिपादनगर्भा, स चात्मनो यथाचोल्लगदिटुंतेणं दुलहं लहिऊण माणुसं जम्मं । जं न कुणसि जिणधम्मं अप्पा किं वेरिओ तुज्झ? ॥ [ ] त्ति । परोपालम्भो यथाउत्तमकुलसंभूओ उत्तमगुरुदिक्खिओ तुमं वच्छ !। उत्तमनाणगुणड्डो कह सहसा ववसिओ एवं ? ॥ [ ] ति । तदुभयोपालम्भो यथाएगस्स कए नियजीवियस्स बहुयाओ जीवकोडीओ । दुक्खे ठवंति जे के वि ताण किं सासयं जीयं ? ॥ [ ] ति । एवमित्यादिना पूर्वोक्तोऽतिदेशो व्याख्यातः, एवं चात्राक्षरघटना- यथैवोपक्रमे