________________
२०२
अत्थिकायधम्मे ।
तिविधे उवक्कमे पन्नत्ते, तंजहा-धम्मिते उवक्कमे, अधम्मिते उवक्कमे, धम्मिताधम्मिते उवक्कमे १। अहवा तिविधे उवक्कमे पन्नत्ते, तंजहा-आतोवक्कमे, परोवक्कमे, तदुभयोवक्कमे २॥ एवं वेयावच्चे ३, अणुग्गहे ४, अणुसट्ठी ५, उवालंभे ६, एवमिक्किक्के तिन्नि तिन्नि आलावगा जहेव उवक्कमे ।
तिविहा कहा पन्नत्ता, तंजहा-अत्थकहा, धम्मकहा, कामकहा ७। तिविधे विणिच्छते पन्नत्ते, तंजहा-अत्थविणिच्छते, धम्मविणिच्छते, कामविणिच्छते ८॥
[टी०] उक्तं मिथ्यात्वम्, तच्चाधर्म्म इति तद्विपर्ययमधुना धर्ममाह-तिविहे धम्मे इत्यादि, श्रुतमेव धर्मः श्रुतधर्म: स्वाध्याय:, एवं चारित्रधर्म: क्षान्त्यादिश्रमणधर्म:, अयं च द्विविधोऽपि द्रव्य-भावभेदे धर्मे भावधर्म उक्त:, यदाहदुविहो उ भावधम्मो सुयधम्मो खलु चरित्तधम्मो य । सुयधम्मो सज्झाओ चरित्तधम्मो समणधम्मो ॥ [दशवै० नि० ४३] त्ति ।
अस्तिशब्देन प्रदेशा उच्यन्ते, तेषां कायो राशिरस्तिकाय:, स चासौ संज्ञया धर्मश्चेत्यस्तिकायधर्मः, गत्युपष्टम्भलक्षणो धर्मास्तिकाय इत्यर्थः, अयं च द्रव्यधर्म इति । ___ अनन्तरं श्रुतधर्म-चारित्रधर्मावुक्तौ, अधुना तद्विशेषानाह– तिविहे उवक्कमे इत्यादिसूत्राणि अष्टौ सुगमानि, परम् उपक्रमणमुपक्रम: उपायपूर्वक आरम्भः, धर्मे श्रुत-चारित्रात्मके भव: स वा प्रयोजनमस्येति धार्मिकः, श्रुत-चारित्रार्थ आरम्भ इत्यर्थः, तथा न धार्मिक: अधार्मिकः असंयमार्थः, तथा धार्मिकश्चासौ देशत: संयमरूपत्वात् अधार्मिकश्च तथैवासंयमरूपत्वात् धार्मिकाधार्मिकः, देशविरत्यारम्भ इत्यर्थः १। ___ अथ स्वाम्यन्तरभेदेनोपक्रममेव त्रिधाऽऽह, तत्रात्मनोऽनुकूलोपसर्गादौ शीलरक्षणनिमित्तमुपक्रमो वैहानसादिना विनाश: परिकर्म वा आत्मार्थं वा उपक्रमोऽन्यस्य वस्तुन: आत्मोपक्रम इति । तथा परस्य परार्थं वोपक्रम: परोपक्रम इति । तदुभयस्य आत्म