________________
२०१
तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः । कर्मवर्गणानां समिति सम्यक् प्रकृतिबन्धादिभेदेन देश-सर्वोपघातिरूपतया च आदानं स्वीकरणं समुदानं निपातनात्तदेव क्रिया कार्मेति समुदानक्रियेति, अज्ञानाद्या चेष्टा कर्म वा सा अज्ञानक्रियेति २। प्रयोगक्रिया त्रिविधा व्याख्यातार्था ३ ।। ___ नास्त्यन्तरं व्यवधानं यस्या: साऽनन्तरा, सा चासौ समुदानक्रिया चेति विग्रहः, प्रथमसमयवर्तिनीत्यर्थः, द्वितीयादिसमयवर्तिनी तु परम्परसमुदानक्रियेति, प्रथमाप्रथमसमयापेक्षया तु तदुभयसमुदानक्रियेति ४ । मइअन्नाणकिरिय त्ति
अविसेसिया मइच्चिय सम्मद्दिट्ठिस्स सा मइन्नाणं ।
मइअन्नाणं मिच्छादिट्ठिस्स सुयं पि एमेव ॥ [विशेषाव० ११४] त्ति । मत्यज्ञानात् क्रिया अनुष्ठानं मत्यज्ञानक्रिया, एवमितरे अपि, नवरं विभङ्गो मिथ्यादृष्टेरवधि:, स एवाज्ञानं विभङ्गाज्ञानमिति ५। __व्याख्यातमक्रियामिथ्यात्वम्, अविनयमिथ्यात्वव्याख्यानायाह- अविणयेत्यादि, विशिष्टो नयो विनयः प्रतिपत्तिविशेषः, तत्प्रतिषेधादविनयः, देशस्य जन्मक्षेत्रादेस्त्यागो देशत्यागः, स यस्मिन्नविनये प्रभुगालीप्रदानादावस्ति स देशत्यागी। निर्गत आलम्बनाद् आश्रयणीयात् गच्छ-कुटुम्बादेरिति निरालम्बनः, तद्भावो निरालम्बनता, आश्रयणीयानपेक्षत्वमिति भावः, पुष्टालम्बनाभावेन वोचितप्रतिपत्तिभ्रंश: । प्रेम च द्वेषश्च प्रेमद्वेषम्, नानाप्रकारं प्रेमद्वेषं नानाप्रेमद्वेषमविनय:, इयमत्र भावना- आराध्यविषयमाराध्यसंमतविषयं वा प्रेम तथाऽऽराध्यासम्मतविषयो द्वेष इत्येवं नियतावेतौ विनय: स्यात्, उक्तं च
सरुषि नति: स्तुतिवचनं तदभिमते प्रेम तद्विषि द्वेषः । दानमुपकारकीर्तनममन्त्रमूलं वशीकरणम् ॥ [ ] इति । नानाप्रकारौ तु तावाराध्यतत्संमतेतरलक्षणविशेषानपेक्षत्वेनानियतविषयावविनय इति।
अज्ञानमिथ्यात्वमित उच्यते – अन्नाणेत्यादि, ज्ञानं हि द्रव्यपर्यायविषयो बोधः, तनिषेधोऽज्ञानम्, तत्र विवक्षितद्रव्यं देशतो यदा न जानाति तदा देशाज्ञानमकारप्रश्लेषात्, यदा च सर्वतस्तदा सर्वाज्ञानम्, यदा विवक्षितपर्यायतो न जानाति तदा भावाज्ञानमिति । [सू० १९४] तिविहे धम्मे पन्नत्ते, तंजहा-सुयधम्मे, चरित्तधम्मे,