________________
२००
- [सू० १९३] तिविहे मिच्छत्ते पन्नत्ते, तंजहा-अकिरिया, अविणए, अन्नाणे
अकिरिया तिविधा पन्नत्ता, तंजहा-पओगकिरिया, समुदाणकिरिया, अन्नाणकिरिया २॥
पओगकिरिया तिविधा पन्नत्ता, तंजहा-मणपओगकिरिया, वइपओगकिरिया, कायपओगकिरिया ३॥
समुदाणकिरिया तिविधा पन्नत्ता, तंजहा-अणंतरसमुदाणकिरिया, परंपरसमुदाणकिरिया, तदुभयसमुदाणकिरिया ४।।
अन्नाणकिरिया तिविधा पन्नत्ता, तंजहा-मतिअन्नाणकिरिया, सुतअन्नाणकिरिया, विभंगअन्नाणकिरिया ५।
अविणए तिविहे पन्नत्ते,तंजहा-देसच्चाती, निरालंबणता, नाणापेजदोसे ६। अन्नाणे विविधे पन्नत्ते, तंजहा-देसण्णाणे, सव्वण्णाणे, भावण्णाणे ७। [टी०] नरकेषु च मिथ्यात्वाद् गतिर्जन्तूनां भवतीति अथवा नया मिथ्यादृश इति सम्बन्धान्मिथ्यात्वस्वरूपमाह- तिविहे मिच्छत्ते इत्यादिसूत्राणि पञ्च सुगमानि, नवरं मिथ्यात्वं विपर्यस्तश्रद्धानमिह न विवक्षितम्, प्रयोगक्रियादीनां वक्ष्यमाणतद्भेदानां असम्बध्यमानत्वात्, ततोऽत्र मिथ्यात्वं क्रियादीनामसम्यग्रूपता, मिथ्यादर्शनानाभोगादिजनितो विपर्यासो दुष्टत्वमशोभनत्वमिति भावः । अकिरिय त्ति नञिह दुःशब्दार्थो यथा अशीला दुःशीलेत्यर्थः, ततश्चाक्रिया दुष्टक्रिया मिथ्यात्वाद्युपहतस्यामोक्षसाधकमनुष्ठानम्, यथा मिथ्यादृष्टेज्ञानमप्यज्ञानमिति, एवमविनयोऽपि, अज्ञानम् असम्यग्ज्ञानमिति १।
अक्रिया हि अशोभना क्रियैवाऽतोऽक्रिया त्रिविधेत्यभिधायापि प्रयोगेत्यादिना क्रियैवोक्तेति, तत्र वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मना प्रयुज्यते व्यापार्यत इति प्रयोगो मनोवाक्कायलक्षणः, तस्य क्रिया करणं व्यापृतिरिति प्रयोगक्रिया, अथवा प्रयोगैः मन:प्रभृतिभिः क्रियते बध्यते इति प्रयोगक्रिया, कर्मेत्यर्थः, सा च दुष्टत्वादक्रिया, अक्रिया च मिथ्यात्वमिति सर्वत्र प्रक्रम:, समुदाणं ति प्रयोगक्रियैकरूपतया गृहीतानां